________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १०]
समाधिख्यापनम् पूर्वोक्तकरणेनैवं घाणाग्रेण शनैश्शनैः ॥ ४५ ॥ आकण्ठाभाभिदेशान्तं तेन व्याप्तं तु भावयेत् । मागुक्तकरणेनैव वायव्यं विभवं ततः ॥ ४६ ।। अधिष्ठातलयं यातं स्मृत्वा तं च महामुने।। स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम् ॥ ४७ ॥
[आकाशतत्त्वनिलयनम् ] व्याप्तां नित्यामदृश्यां च स्वशक्तिविभवान्विताम् । शब्दाख्ये तु महाधारे निक्षिपेढ्योममण्डले ॥ ४८ ॥ ध्यात्वाऽथ विभवं सर्व व्योमाख्यं विग्रहादहिः । नानाशब्दसमाकीर्ण नीरूपं चाअनप्रभम् ॥ ४९ ॥ अविग्रहैश्शब्दमयैः 'पूर्ण सिद्धैरसङ्ख्यकैः । तन्मध्ये धारणान्मन्त्रं व्योमाख्यं संस्मरेविज ॥ ५० ॥ धारयन्तं स्वमात्मानं स्वसामर्थ्येन सर्वदा । शाब्दमत्रामरूपं तु व्यापकं विभवेष्वपि ॥ ५१ ॥ धिया च संपरिच्छन्नं कृत्वा विन्यस्य विग्रहे । मागुक्तकरणेनैव तेन व्याप्तं तु भावयेत् ॥ ५२ ॥ आकर्णाद्ब्रह्मरन्ध्रान्तं व्योमाख्यं विभवेन च । सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना ॥ ५३ ॥ ध्यायेत्परिणतं पश्चात्स्वमन्त्रे तु तथा मुने ।
व्योमाख्यं धारणामन्त्रं शब्दशक्तों लयं गतम् ॥ ५४॥ [ शब्दशक्तेः क्रमात् गन्धादिशक्तिनिलयनास्पदभूताया निष्कलेऽनुप्रवेशभावनम् ]
तां शक्तिं ब्रह्मरन्ध्रण प्रयान्तीमनुभावयेत् । युक्तां शक्तिचतुष्केण गन्धाधेनाविनश्वरीम् ॥ ५५॥ आश्रयेनिष्कळं मन्त्रं व्योमातीतं निरञ्जनम् । शक्तयो याश्च सत्याधास्तासामपि परश्च यः ॥ ५६॥ षद्कं (ष्ठं ?) तं निष्कळं विद्धि व्याप्तिः प्रागुदितास्य च । समनं विभवं भौतमेवमस्तं नयेत्रमात् ॥ ५७ ॥ I पूर्व CL.
For Private and Personal Use Only