________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहिता
[प.१.
संपूर्य पूरकाख्येन करणेन शनैश्शनैः । ऊरुमूलाच जान्वन्तं शरीरं मण्डलं स्वकम् ॥ ३३ ॥ तेनाखिलं तु संव्यासं कुम्भकेन स्मरेविज । तन्मध्ये वारुणं मनं धारणाख्यं विचिन्त्य च ॥ ३४ ॥ अम्मयं विभवं सर्व तन्मध्ये विलयं गतम् । ततस्तं रसशक्तौ च सा शक्तिर्वहिमण्डले ॥ ३५ ॥
[तेजस्तत्त्वनिलयनम् ] रेचकेन विनिक्षिप्य ततो वान्हं च वैभवम् । त्रिकोणभुवनाकारं दीप्तिमद्भिविभूषितम् ॥ ३६ ॥ विद्युञ्चन्द्रार्कनक्षत्रमणिरनैश्च धातुभिः। स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः ॥ ३७॥ चिन्हितं स्वस्तिकैर्दीप्तैाप्यैवं विभवं महत् । तैजसं मुनिशार्दूल तन्मात्रं चाथ संस्मरेत् ॥ ३८ ॥ तन्मण्डलान्तरस्थं तु पोचरन्वै तमेव हि । प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु ।। ३९ ॥ आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च । तं विष विभवं सर्व तैजसं परिभावयेत् ॥ ४०॥ तन्मन्नविग्रहे श्रान्तं मनं तच्चानलात्मकम् । रुपशक्तौ लयं यातं शक्तिस्संविन्मयी च सा ॥ ४१ ॥
[ वायुतत्त्वनिलयनम् ] तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् । रेचकेन कृतां शक्तिं वाय्वाधारे बहिः क्षिपेत् ॥ ४२ ॥ ततस्तु वायवीयं वै वैभवं बाह्यतः स्मरेत् । वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु तैजसैः ॥ ४३ ॥ पूर्ण नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा । स्वमन्त्रेण समानान्तं धारणाख्येन तं स्मरेत् ॥ ४४ ॥ तथा स्वरूपं तन्मन्त्रं ध्यात्वोचार्य समाहरेत् ।
1 पिधाय A.
For Private and Personal Use Only