________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १० [आसनशुद्धिः] मूलमन्त्राभिजप्तेन तोयेन प्रोक्ष्य चासनम् । च्छोटिकां मन्त्रसंयुक्तां दद्यात्तच्छुद्धये पुनः ॥ ८ ॥
. [करशुद्धिः] हस्तशुद्धिं ततः कुर्याद्यथा तच्छृणु नारद । द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गलयस्तथा ॥ ९ ॥ अस्त्रमन्त्रेण संशोध्य ध्यानौच्चारप्रयोगतः । कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ १० ॥
[ स्थानशुद्धिः ] ध्यात्वा देवं ज्वलद्रूपं सहस्रार्कसमप्रभम् । ज्वालाकोटिसमाकीर्ण वमन्तं ज्वलनं मुखात् ॥ ११ ॥ तेन संपूरयेत्सर्वमाब्रह्मभुवनान्तिमम् । दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ १२॥
मामण्डलमिदं सर्व स्मरन्पकं च वह्निना । मन्त्रजेन द्विजश्रेष्ठ मृण्मयं भाजनं यथा ।। १३ ॥ स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् । भूतशुद्धिं शृणु मुने यथावदनुपूर्वशः ॥ १४ ॥
- [भूतशुद्धिप्रकरणम् ] पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् । इन्द्रजालोपमं विद्धि ज्ञानाधैरुज्झितं गुणैः ॥ १५॥ मलिनश्चास्वतन्त्र च रतोरक्तोद्भवं क्षयि । यावन्न शोधितं सम्यक् धारणाभिनिरन्तरम् ॥ १६ ॥ तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ।
[पृथिव्यादिभूतानां बीजानि ] शङ्करश्चाग्निरूपश्च सोमःसूर्यस्तदन्तकः ॥ १७॥ वर्णपञ्चकमेतद्वै युक्तं कुर्याक्रमेण तु । घरेशेन वराहेण अनलेनाथ कम्बुना ॥ १८ ॥ प्रधानेन द्विजश्रेष्ठ सर्वेषां योजयेत्ततः। त्रैलोक्यैश्वर्यदोपेतमादिदेवं च मूर्धनि ॥ १९ ॥
1 सोमसूर्यावनन्तकः A.
For Private and Personal Use Only