________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७.
जयाल्यसंहिता भवेच्च साधकेन्द्राणां भुक्तिमुक्तिमसाधने । आदौ तु मूलमन्त्रस्य अन्येषां तदनन्तरम् ॥ २॥ मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे । आत्मनो न्यासकाले तु पूजान्ते मण्डलावनौ ॥ ३ ॥ अर्चामु मन्त्रविन्यासे अर्घ्यपात्रेऽम्बुभाजने । पूर्णाहुत्यवसाने च मन्त्रे वह्नयन्तरस्थिते ॥ ४ ॥ हिंसकानां विधाताय सर्वविघ्नोपशान्तये । सर्वकार्यार्थसिध्यर्थं मुद्राकोश इहोदितः ॥५॥
[जयामुद्रा ] अधोमुखाद्वामहस्तान्मध्यमां ग्राहयेन्मुने । कनिष्ठया दक्षिणस्य तिस्रोऽन्या मुष्टिवस्थिताः ॥६॥ अङ्गुष्ठमुभयं कृत्वा मुद्रेयं तु जया स्मृता । अधस्ताद्गरुडं तस्या वामहस्ते विचिन्तयेत् ॥७॥ पृष्ठे स्यादक्षिणे हस्ते ध्यायेद्विष्णुं सनातनम् । एषा मुद्रा जया नाम सर्वकार्यार्थसाधनी ॥८॥ योजयेद्देवदेवस्य तापेण सहितस्य च ।
[शक्तिमुद्रा ] प्रसार्य वाममुत्तानमगुल्यो विरलाः स्थिताः ॥९॥ कार्यास्त्वाकुश्चिताः प्रान्तादङ्गुष्ठं सेतुवद्भवेत् । सम्मुखं तासु संलग्न करशाखासु मध्यतः ॥१०॥ हृत्सम्मुखं तु बधीयाच्छक्तिमुद्रां मुखपदाम् । शक्तियुक्तस्य देहस्य मुद्रा वै सन्निधापनी ॥ ११ ॥ प्रदेशिन्या ततो(?)विद्धि लक्ष्मीपूजासु शक्तिषु ।
[हृदयमुद्रा] दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ॥ १२॥ अङ्गुष्ठं करमध्यस्थं कृत्वा योज्यं हृदि द्विज । हृदयाख्या भवेन्मुद्रा सर्वमन्त्रेषु साधनी ॥१३॥
[शिरोमुद्रा] प्रसृता अहुलीस्सर्वा अङ्गुष्ठेन तु संस्पृशेत् । I दि A 2 धौ A.
For Private and Personal Use Only