________________
Shri Mahavir Jain Aradhana Kendra
प. ७ ]
www.kobatirth.org
उपकरणमन्त्रोद्धारः
मन्त्राद्यस्य चतुष्कं तु पद्मनाभमतः परम् ॥ ६१ ॥ न्यसेत्तस्यानन्दयुतं व्योमोर्चे परमेष्ठिने ।
Acharya Shri Kailassagarsuri Gyanmandir
सनमस्कं पदं दद्यात् पितृभ्यां [तॄणां] चाथ मे श्रृणु ॥ ६२ ॥ [ पितॄणां मन्त्राः ] तारपञ्चकमाह्लादं व्योममाणोपरि न्यसेत् । कालानलौ तु तदधस्सर्वलोकेश्वरोपरि ॥ ६३ ॥ यथाक्रमोदितैर्वणैः पिण्डं कृत्वा ततः पदम् । स्वधा पितृभ्यः सनमः पितृसङ्घस्य मन्त्रराट् ॥ ६४ ॥ [ पूर्वसिद्धमन्त्रः ] कथितो द्विजशार्दूल पूर्वसिद्धेष्वथोच्यते । अन्ते प्रणवपद्स्य आनन्दं व्योमभूषितम् || ६५ ॥ पद तथादिसिद्धेभ्यस्सनमस्कं नियोजयेत् । प्रागिमं मन्त्रनिचयं पूजयित्वा ततोऽर्चयेत् ॥ प्रधानमन्त्रपूर्वा ये यस्मिन्यस्मिंस्तु कर्मणि ।
६६ ॥
[ लोकेशमन्त्राः ]
अथ लोकेश मन्त्राणां शास्त्राणां लक्षणं शृणु ॥ ६७ ॥ व्योमानन्दं ततः प्राणं धरेशोपरि संस्थितम् । एतदेकीकृतं वर्ण' सृष्टिन्यायेन नारद ॥ ६८ ॥ ऐन्द्रो मन्त्रसमुद्दिष्ट इतरेषां निबोध मे । प्राणद्वयं द्विजोद्धृत्य क्रमादनलकालगम् ॥ ६९ ॥ द्वितीय स्वरसंयुक्तं व्योममस्तकभूषितम् । शिखिनश्चान्तकस्यैव द्वे बीजे परिकीर्तिते ॥ ७० ॥ व्यापी 'नरश्च लिङ्गात्मा प्राग्वत्संयोज्य पिण्डवत् । "यात्वीशस्य तु बीजेन अन्येषामवधारय ॥ ७१ ॥ परमात्मानमुद्धृत्य द्विधा द्वाभ्यामथो न्यसेत् । वराहसूक्ष्मसंज्ञौ तु व्योमानन्दावथोपरि ॥ ७२ ॥ अनुक्रमेण विज्ञेयौ बीजौ वरुणवायुजौ । धर्मी शोरूर्ध्वगं न्यस्य वर्ण वाराहसंज्ञकम् ॥ ७३ ॥
1 र्ण A. 2 नारं च CL तारं च A 3 यं बीजस्य तु बीजेश A.
९
For Private and Personal Use Only
६५