________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प, ७
जयाख्यसंहिता पाग्वत्स्वरद्वयोपेतं बीजं चोडुपतेः स्मृतम् । सूर्यमू|परिस्थं च व्यापकेन तथावितम् ॥ ७४ ॥ ईशानाख्यं स्मृतं बीजं विश्वाप्यायकरान्वितम् । आदिदेवान्वितं व्योम पाणाख्यस्योपरि न्यसेत् ॥ ७५ ॥ वैकुण्ठस्तदधो योज्यो बीजं नागेश्वरस्य च । माग्वत्स्वरान्विते सूर्ये वेदात्मानमर्थो न्यसेत् ॥ ७६ ।। ब्रह्मणो बीजमाख्यातं परं व्योमेश्वरस्य च । सर्वेषां प्रणवं पूर्व स्वसंज्ञान्ते नमोयुताः ॥ ७७ ॥
[वज्राद्यायुधमन्त्रः] अथायुधानां क्रमशो ये मवाः शुभलक्षणाः। स्थितान् शृणु समासेन यथायोगानुवाचकान् ॥ ७८॥ अजितं च द्विधोद्धत्य प्रधानोपरिसंस्थितम् । अशेषभुवनाधारमर्वेऽधश्चानयोर्यसेत् ॥ ७९ ।। लोकेशोोदितं पूर्व द्वितीयं पञ्चविन्दुना । विसर्गयुक्ते द्वे चैते बीजे कुलिशशक्तिजे ॥ ८॥ अखण्डविक्रमवान्द्री द्वावेतो मर्दनस्थितौ । लोकेश्वरविसर्गाब्यौ विज्ञेयो दण्डखङ्गयोः ॥ ८१॥ आहादाजितसंझौ द्वौ शताख्यवरुणस्थितौ । विसर्गानन्दसंयुक्तौ ज्ञेयौ पाशध्वजाभिधौ ॥ ८२ ॥ परमात्मानमुद्धत्य अनलाख्यमतःपरम् । तयोरुपरि तो कुर्यात्क्रमादनलशाश्वतौ ॥ ८३ ॥ सोदामेन विसर्गेण एकैकमथ योजयेत् । मोक्तौ मुद्गरशूलौ द्वौ सोमेशाभ्यां द्विजायुधे ॥ ८४ ॥ परमतिसंबं यद्विन्यसेदनलोपरि। ओदनं सविसर्ग च ततस्तस्यैव योजयेत् ॥ ८५ ॥ सीराख्यं बीजमेतद्धि वारिजस्याधुनोच्यते । वरुणश्च द्विजोदृत्य नराख्यस्योपरि स्थितम् ॥ ८६ ॥ विसर्गेणादिदेवेन युक्तं पाग्रामिहोदितम् ।
[विष्वक्सेनमन्त्रः] आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् ॥ ८७ ॥ 1 दे CL. 2 स्थाप्य A. 3 धो CL. 4 र CL. 5 मयाख्य. A.
For Private and Personal Use Only