________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुख्यमन्त्रोद्धारः प्रभवाघो विसर्गान्तमुपासन्दोहविग्रहः ॥ २०४ ॥ सर्वदेवमयश्शुद्धस्सर्वाध्वात्मा परः प्रभुः। समस्तशक्तिदेहस्तु भारूपस्सूक्ष्मरूपधृत ॥ २०५॥ संसारार्णवमनानामिच्छया स्थूलतां गतः । अधिष्ठितस्स विभुना परेणालोकरूपिणा ॥२०६॥ मुमुक्ष्मेणाविग्रहेण सदालोकरसात्मना । अणीयांसमणोर्विद्धि मन्त्रशक्तिः परा हि सा ॥२०७॥ उपाधिरहितं शुद्ध मत्सामीप्यफलप्रदम् ।
तच्छरीरं हि मे मनं परं परफळपदम् ॥२०८॥ [ परसूक्ष्मस्थूलरूपेण सतां मन्त्राणां संविन्मयात् सर्वतः परतरात्प्रादुर्भावनिरूपणम् ]
निर्विकारशरीरं च यागाख्यं परमं स्मृतम् । तुर्यात्परं पदादस्मात् ज्ञेयाख्यं परमं मम ॥२०९ ॥ ग्राह्यग्राहकनिमुक्तं संविदानन्दलक्षणम् । तन्मयास्तं प्रपश्यन्ति विशुद्धनान्तरात्मना ॥२१०॥ यतः परः प्रभवति भाशब्दाख्यश्च मनराद । यत्र सप्तपदार्थ तु विज्ञातं व्यक्तिमेति च ॥२११ ॥ यत्र वै वर्णरूपेण सर्वे लोकाः प्रतिष्ठिताः। प्रधानकारणानां यवाभ्यां यत्परतस्स्थितम् ॥२१२ ॥ मनोत्पत्तिक्रमेणैव याहक्संस्थं तथा शृणु । अनुक्रमेण संयोज्य सृष्टिन्यायेन नारद ॥ २१३ ॥ सप्तकश्चैव वर्णानां संविभक्तिविभावितम् । सूर्यसोमानिरूपं तु प्रधानपुरुषेश्वरम् ॥ २१४ ।। अशेषभुवनाधारं त्र्यैलोक्यैश्वर्यदायकम् । एष वर्णमयः पिण्डः परो मे मनविग्रहः ॥ २१५ ॥ भावग्राह्यमनौपम्यममकाश्यमिदं मुने । प्रकाशितो मया तेऽद्य जीवभूतो हि मत्रराट् ॥ २१६ ॥ समस्तमवचक्रस्य सामर्थ्यजनको हि यः। मत्रेण तेन विधिना ओतप्रोतव्यवस्थया ॥ २१७ ॥ अधिष्ठितोऽपि बीजो वै निर्मलस्फटिको यथा ।। 1 शक्या CL.
For Private and Personal Use Only