________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुख्यमन्त्रोद्धारः
प.६]
केवलं शङ्करश्चान्ते रारूढं पश्चिमाननम् । अजितश्चामृताधारस्संस्थितं प्रोद्धरेत्ततः ॥ १२७॥ घरेशं केवलं दद्यानेत्राय व्यक्षरं पदम् । तदन्ते च वौषट् कुर्यान्नेत्रमत्रो ह्ययं स्मृतः॥१२८॥ त्रिपञ्चवर्णसंख्यस्तु सााो द्विज सिद्धिदः ।
[ अस्त्रमन्त्रः] नमः प्रणवमध्यस्थः परमात्मा ह्यनन्तरम् ।। १२९ ॥ सविसर्ग:स एवास्त्रं मूर्तिमन्त्रसमन्वितम् । दत्तावकाशसंज्ञं वै मायाभूषितविग्रहम् ॥१३०॥ पवित्र स्रग्धरारूढं तदा चोदनं न्यसेत् । मदन सत्यसंस्थं च पवित्रं ताललक्ष्मगम् ॥ १३१ ॥ भूयस्तमनलस्थ च केवलं च ध्रुवं ततः। तदन्ते चाप्रमेयं तु सोमाख्यं चोद्धरेत्ततः॥ १३२ ।। वैराजस्थं द्विजश्रेष्ठ सोऽपि चानलसंस्थितः । गोपनेनाङ्कायेत्तं वै पिण्डोऽयं चतुरक्षरः ॥ १३३ ॥ केवलं च ततः सूक्ष्मं फट्कारपदभूषितम् ।। चतुर्दशस्वरं ह्यस्त्रमाक्षरमन्वितम् ॥ १३४ ॥
[पूर्व चतुर्वक्त्रतयोक्तस्य देवस्य नृसिह्याद्यास्यत्रयमन्त्राः ] स्थिता नृसिमपूर्वेषु तान्वक्ष्यामि समासतः ॥ १३५ ॥ सदेहाश्च पृथग्भागे' साङ्गास्सपरिवारकाः । देवस्य वक्त्रमात्रेण ध्येयाः पूज्याश्च यत्नतः ॥ १३६ ॥ विश्वाप्याययुतं विप्र प्रणवं पूर्वमुद्धरेत् । अजितञ्चानलस्थं च ओदनेन समन्वितम् ॥ १३७ ॥ चन्द्रिणश्चोर्ध्वतः कृत्वा व्यापनस्तस्य चोपरि । मोद्धरेजन्महन्तारं तदधस्सामपाठकम् ॥ १३८ ॥ कुर्याचानलसंस्थं च उर्ज वै तदधः पुनः । ऊर्ध्वं व्यापी तथा ह्यादै। भूधरश्च भवेत्क्रमात् ॥ १३९ ॥ पिण्डाक्षरमिदं विष द्वितीयस्य नमोन्तगम्। ज्वलनायुतशब्दं च दीप्तये व्यक्षरं पदम् ॥ १४० ॥ IM A. 2 दमनं A. 3 स्थ. A 4 ग्या CL. 5 ऊर्ध्वस्यापि A.
For Private and Personal Use Only