________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
जयाख्यसंहिता
[प.
कालपावकसंस्थं वै तं च फान्तं द्विजोत्तम ॥ ११४ ॥ अथोद्धरेत्माणसंज्ञं मदनेनोपरि स्थितम् । शिरसे च पदं पश्चात्स्वाहा शब्दस्तदन्तगः ॥११५॥ त्रयोदशाक्षरं विद्धि शिरोमन्त्रं तु नारद ।
[शिखामन्त्रः] प्रणवं प्रथमं दद्यात्सूर्याख्यं तदनन्तरम् ।। ११६ ॥ विष्णुनाऽलङ्कतं मूर्धा त्रैलोक्यैश्वर्यदेन च । नमश्चास्यावसाने वै शिखामन्त्रश्च निष्कलः ॥ ११७ ॥ मूर्तिमन्त्रमथास्यैव वच्मि सर्वार्थसिद्धिदम् । पद्मनाभश्च(भं च ? )रारुढ दकारं शङ्खमूर्ध्वगम् ॥ ११८ ॥ कुर्यात्तमोतदेहेन प्रोतं यत्नेन नारद । केवलस्ताललक्ष्मातो रामोपेतो नरस्ततः ॥ ११९ ॥ शिखायै वौषडन्तश्च शिखामन्त्री ह्ययं स्मृतः । सार्धत्रयोदशार्णश्च नानासिद्धिफलपदः ॥ १२० ॥
[कवचमन्त्रः] नतिप्रणवमध्ये तु माणं व्योमविभूषितम् । पञ्चमस्वरसंयुक्तं कवचाण विनिर्दिशेत् ॥ १२१ ॥ 'कृष्णस्य मूर्तिमन्त्रे तु भुक्तिमुक्त्यर्थसिद्धिदम् । पोद्धरेच्छङ्कराख्यं तु आनन्देनाभ्यलङ्कृतम् ॥ १२२ ॥ वराहस्थं तमेवाथ वैराज केवलं ततः। केवलं पुण्डरीकं तु केवलं कालपावकम् ॥ १२३ ॥ चतुर्गतिसमारूढं वैकुण्ठं मोद्धरेत्ततः। कवचाय पदं कुर्याटुकारेण विभूषितम् ॥ १२४ ॥ उभयात्मैष उक्तस्तु मत्रः पञ्चदशाक्षरः।
[नेत्रमन्त्रः] नमोन्तः प्रणवाधश्च प्राणो व्योमविभूषितः ।। १२५॥ 'औकारस्वरसंयुक्तो नेत्रमन्त्रस्तु निष्कलः। पवित्रमनलारूढं कमलं गोपनाङ्कितम् ॥ १२६ ॥ 16S 2न्तं A 3 उY 4 t. A
For Private and Personal Use Only