________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
]
मुख्यमन्त्रोद्धारः
[ मायामन्त्रः] पाग्बीजं प्रणवाद्यं च मायायै च ततो नमः । मोहातीतपदं चाय नान्तं तदनु योजयेत् ॥ १०२ ॥ द्वितीयस्वरसंयुक्तं दकारं तदनन्तरम् । शृताय त्र्यक्षरशब्दो मायावीजं ततो भवेत् ॥ १०३ ॥ प्रधानमनलारूढं चतुर्थस्वरभूषितम् । त्रैलोक्यैश्चर्यदेनैव युक्तं स्वाहान्तमुद्धरेत् ॥ १०४ ॥ मायामन्त्रश्च पूर्वेषां वर्णसंख्यासमस्स्मृतः ।
[हृदाद्यङ्गमन्त्रनिरूपणम् ] अङ्गानि देवदेवस्य कथयिष्यामि तत्वतः ॥ १०५ ॥ सन्नद्धःसाधको यैस्तु अवध्यस्त्रिदशैरपि । साधयेत्सर्वकार्याणि यान्यायुस्सुखदानि च ॥ १०६ ॥ भक्तस्तद्भावितात्मा च यदि मन्त्रक्रियापरः।
[हृन्मन्त्रः] अनन्तपूर्व यद्वीजं बिन्दुभूषितमुद्धरेत् ॥ १०७ ॥ नमोऽन्तं प्रणवाचं तु हृन्मन्त्रं विद्धि निष्कलम् । अस्यैव मूर्तिमन्त्रो यस्तं ते वच्मि यथास्थितम् ॥ १०८॥ प्रणवो बिन्दुसंभिन्नस्सूर्यस्सोमो विसर्गधृक् । शुचिशब्दं ततः कुर्यादग्निरूपमथोद्धरेत् ॥१०९॥ दफारवर्ण तदनु प्रणवेनाप्यलङ्कतम् । हृदयाय नमस्कुर्यात् हृन्मन्त्रो मूर्तिसंयुतः ॥ ११० ॥ मप्तादशाक्षरो विप्र सर्वसिद्धिमदायकः।
[शिरोमन्त्रः ] द्वितीयस्वरसंयुक्तं तदेव शिरसि न्यसेत् ॥ १११ ॥ एवमुद्धृत्य च ततस्तस्यादौ प्रणवं न्यसेत् । पणतिं चावसाने तु मूर्धानं विद्धि निष्कलम् ॥ ११२॥ मूर्तिमनमथो वक्ष्ये अस्यैवानुचरस्तु यः। मोद्धरेत्पद्मनाभाख्यं केवलं तादृशं त्वनु ॥११३ ॥ अशेषभुवनाधारं फळ तस्यावसानगम् ।
For Private and Personal Use Only