________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.६ पाशाङ्कुशधरा देव्यः सर्वकामार्थसाधकाः । पूर्वादिदिग्विभागस्थाः केसरारेषु नारद ॥ १०॥ बद्धपद्मासनाश्चैव देवदेवस्य संमुखाः ।
[लक्ष्म्यादिमन्त्रनिरूपणोपक्रमः] मत्रांस्तासां प्रवक्ष्यामि पूजार्थ विविधानथ ॥९१ ॥ यैस्समाराधिताः शश्वदभीष्टं साधयन्ति च । मूलमन्त्राद्वितीयं यत्केवलं बीजनायकम् ॥ ९२ ॥ सामान्यं हृदयं ह्येतत्सर्वासां परिकीर्तितम् । मूर्तिमन्त्रचतुष्कं तु क्रमेणासां पृथक्शृणु ॥ ९ ॥
[लक्ष्मीमन्त्रः] प्रणवं चोद्धरेत्पूर्व हृद्वीजं तदनन्तरम् । द्विरक्षरे पदं लक्ष्म्यै पाङ्गमोन्तं निवेश्य च ॥ ९४ ॥ ततः परमशब्दं तु तदन्ते पुरुषेश्वरम् । वर्गान्तमास्वरोपेतं वस्थितायै पदं न्यसेत् ॥ ९५ ॥ भूयस्तद्धृदयं बीजं श्रीं ह्रीं वीनद्वयं ततः । स्वाहासमन्वितं विष प्रणवाद्यं च मन्त्ररात् ।। ९६ ॥ मूर्तिमन्त्रसमेतस्तु लक्ष्म्याख्यो 'द्विदशाक्षरः ।
[कीर्तिमन्त्रः] हृद्वीज प्रणवायं तु पदं कीय ततो नमः ॥ ९७ ॥ सदोदितानन्दपदं विग्रहायै पदं त्वनु । ही क्लीं स्वाहासमेतस्तु पाक्संख्यं कीर्तिमन्त्रराट् ॥९८ ॥
__ [जयामन्त्रः] हृद्धीज भणवोपेतं जयायै ध्यक्षरं नमः। स्वराय जितशब्दश्च धामा वर्णद्वयं ततः ।। ९९ ॥ वस्थितायै पदं कृत्वा तद्वीजं न्यसेत्पुनः । अशेषभुवनाधारावस्थितं च तृतीयकम् ।। १०० ॥ व्योमेशपञ्चविन्दुस्स्यात्स्वाहा तदनु नारद (बै पदम् ) । वर्णद्विदशसंख्यश्च जयाख्यो मन्त्र उत्तमः ॥ १०१ ॥
I याः CL. 28 A. 3 . A
For Private and Personal Use Only