________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
जयाल्यसंहिता
[प. ४-५ मुखेऽमिरापस्स्वेदो वै ग्रहा अक्षादयो मलम् । मलमस्योपचारत्वान्नत्वेवं परमार्थतः ॥१३० ॥ इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः । यज्ज्ञात्वा न पुनर्भूयो भवमेष्यास सालम् ॥ १३१ ॥ खवत्सर्वगतं चैव यद्यप्यस्मिंश्चराचरे। .
स्थितं ज्ञानं विना विप्र तथापि हि सुदुर्लभः ॥ १३२ ।। इति श्री पाञ्चरात्रे जयाख्यसंहितायां शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः ।
अथ ब्रह्मज्ञानोत्पत्याख्यानं नाम पञ्चमः पटलः
नारदःब्रह्माभिन्नं विभो ज्ञानं श्रोतुमिच्छामि तत्त्वतः। येन सम्माप्यते ज्ञेयमन्तःकरणसंस्थितम् ।। १॥ [ ज्ञानस्य योगाभ्यासकलभ्यत्वम् )
श्रीभगवान्सर्वोपाधिविनिर्मुक्तं ज्ञानमेकान्तनिर्मलम् । उत्पद्यते हि युक्तस्य योगाभ्यासात्क्रमण तत् ॥ २॥ तेन तत्माप्यते विष अन्यथा दुर्लभं भवेत् ।
नारदःकथमेवंविधं ज्ञानमुत्पधेत जगत्प्रभो ॥ ३ ॥ यतस्स्याज्ञयसमता एतद्विस्तरतो वद । [ भगवच्छक्तिसामर्थ्याद्गुणसाम्यापत्या स्वात्मस्वरूपजिज्ञासोत्पत्तिः ]
श्रीभगवान्संसारपादपस्थानां फलानां चैव नारद ॥ ४ ॥ पककर्मरसानां च प्रान्तानां भवसागरे । भगवच्छक्तिसामर्थ्यागुणसाम्यं भवेत्क्षणात् ॥५॥ तत्साम्यात्कर्मसमता जायते समनन्तरम् । तत्समत्वाद्विचारस्तु प्रवर्तेतात्मलाभदः ॥ ६ ॥ कोऽहं किमात्मकश्चैव किमिदं दुःखपञ्जरम् । यत्राहमसमाश्वस्तस्संस्थितस्सर्वदैव हि ॥ ७॥
1तेऽभि A
For Private and Personal Use Only