________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.४]
शुद्धसर्गब्रह्मतत्त्वाख्यानम्
अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः। ज्योतिर्ज्ञानात्मकत्वेन कालत्वेन च नारद ॥ ११६ ॥ जीवक्षेत्रात्मकत्वेन भूतात्मत्वेन वै तथा । एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् ॥ ११७ ॥ नारायणः परं ब्रह्म निष्ठा सन्ब्रह्मवेदिनाम् ।
[ सनिदर्शनमुपासकानां ब्रह्मसम्पत्तिनिरूपणम् ] यद्वन्महापुरस्यान्तर्यायिनः प्रविशन्ति च ॥ ११८ ।। सर्व दिग्बहुनिर्माण(?)स्तद्वद्विष्णोरुपासकाः । ध्येयेष्वीश्वरभूतेषु ध्यायिनस्तु सदैव हि ॥ ११९ ॥ विशन्ति क्षीणमोहाश्च यथा क्षीणामृता द्विज.। कला या ऐन्दवास्सूर्ये तद्वद्विष्णौ च योगिनः ॥ १२० ॥ मेघाद्धारागणेनैव पृथगम्बुगतं क्षितौ । प्रामोत्यैक्यं तथा सर्वे भगवत्यपि योगिनः ॥ १२१ ॥ यथाग्नेकेन्धनादीनि संपविष्टानि पावके । अलक्ष्याणि च दग्धानि तद्ब्रह्मण्युपासकाः ॥ १२२॥ सरित्साधथा तोयं संपविष्टं महोदधौ। अलक्ष्यश्चोदके भेदः परस्मिन् योगिनां तथा ॥ १२३ ॥ उपासते यमात्मज्ञा यतस्सूर्यो विराजते । तमाश्रय मुने शश्वद्यस्य कोट्यंशजा वयम् ॥ १२४ ।। तथा सहस्रम्रो यः सहस्राक्षस्सहस्रपात । सहस्रबाहुभिः पूर्णस्सहस्रात्मधरः प्रभुः ।। १२५ ॥ सहस्रदीप्तिभिः स्फीतः श्रीनिवासः किरीटवान् । श्रीवत्सवक्षा विप्रेन्द्र कौस्तुभायैरलङ्कतः ॥ १२६ ॥ चन्द्राकौं नयनोद्देशे जिह्वासङ्डे(स्थाने?)सरस्वती । यस्योच्छ्वासश्च पवनस्तस्मादूर्ध्वस्तु कावधौ (?) ॥ १२७ ॥ श्रोत्रोद्देशे दिशो यस्य विदिशो यस्य बाहवः । पातालादौ तलं यस्य विज्ञेयं पादसन्ततौ ॥ १२८ ॥ प्रभा यस्य च कालाग्निर्जीमृताः केशसन्ततिः। रोमाणि यस्य विबुधा ऋषयो रोमकूपगाः ॥ १२९ ॥
1 क्षेत्रक्षकत्वेन C. L. 2 कच.
For Private and Personal Use Only