________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ४]
३३
शुद्धसर्गब्रह्मतत्त्वाल्यानम् यत्माप्य न पुनर्जन्म भवेऽस्मिन्माप्यते बुधैः ।
[ परब्रह्मनिरूपणम् ]
श्रीभगवान्आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् ॥ ६० ॥ स्वसंवेद्यमनौपम्यं परा काष्ठा परा गतिः। सर्व क्रियाविनिर्मुक्तं सर्वेषामाश्रयं प्रभुः ॥ ६१ ॥ चिन्तामणौ यथा 'सर्व मूर्त सङ्गि व्यवस्थितम् । तथा सर्व तु सर्वत्र विद्यते सर्वगस्य च ॥ ६२ ॥ अनादि तदनन्तं च न सत्तन्नासदुच्यते । सर्वत्र करवाक्पादं सर्वतोऽक्षिशिरोमुखम् ।। ६३ ॥ सर्वतःश्रुतिमद्विद्धि सर्वमानृत्य तिष्ठति । सगुणैरिन्द्रियैस्स सितं चैव वर्जितम् ॥ ६४ ॥ तदसक्तं हि सर्वत्र यत्तु सर्वत्र चैव हि । निर्गुणो गुणभोक्ता च सर्वस्यान्तर्बहिः स्थितः ।। ६५॥ चलाचलं तु तद्विद्धि सूक्ष्मत्वानोपलभ्यते । दरस्थितस्तथा हृत्स्थः परमात्मा परः प्रभुः ।। ६६ ।। भूतेभ्यश्चाविभक्तं तद्विभक्तमुपलभ्यते । स भावभूतभृच्च स्यात्संहापि सृजत्यपि ॥ ६७ ॥ प्रकाश्य ज्योतिषां तच्च अज्ञानात्परतः स्थितम् । ज्ञानं तदेव ज्ञेयं च तद्ध्यानेनाधिगम्यते ॥ ६८॥ सर्ववर्णरसहीनं सर्वगन्धरसान्वितम् । सर्वज्ञस्सर्वदर्शी च सर्वस्सर्वेश्वरः प्रभुः ॥६९॥ सर्वशक्तिमयश्चैव स्वाधीनः परमेश्वरः। अनादिश्चाप्यनन्तश्च सर्वदुःखविवर्जितः ॥७०॥ विदित्वैवं (एवं वेत्ति ?) परं ब्रह्म ज्ञानेन परमेण च । यदा न जायते भूयस्संसारेऽस्मिंस्तदा पुमान् ॥ ७१ ॥
नारदःसर्वतः पाणिपादायैर्यदुक्तं लक्षणैस्त्वया ।
न चैकमुपपद्येत घटते तद्यथाऽऽदिश ॥७२ ॥ 1 सर्वममूर्त संव्यव A. 2 भावित C. L. 3 A.
For Private and Personal Use Only