________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाव्यसंहिता
[प.४
ब्रह्मण्यभिन्नं सत्ताख्या ज्ञानाज्ज्ञानं ततो भवेत् ॥५०॥ ब्रह्माभिन्नात्ततो ज्ञानाद्ब्रह्म संयुज्यते परम् ।
[ब्रह्मसमापत्तेरपुनर्भवलक्षणमोक्षरूपता ] अनादिवासनायुक्तो यो जीव इति कथ्यते ॥ ५१॥ तस्य ब्रह्मसमापत्तिर्याऽपुनर्भवता च सा ।
[ब्रह्मामिन्नत्वप्रकारोपपादनम् ] यत्सम्यग्ब्रह्मवेत्तृत्वं मनाग्या चैव भिन्नता ॥ ५२ ॥ ईपद्रमसमापत्तिस्तदभिन्नं तु वै स्मृतम् ।
[अविद्यायोगादात्मनो देवादिभेदः ] ज्ञानं स्वनेकभेदैर्यत्तत्वतामति चात्मनः ।। ५३ ।। गौण(णे?)विद्यामये तत्त्वे सम्यग्विद्यामयस्य च ।
नारदःका गुणाख्या विद्या च यत्र ज्ञानमयः प्रभुः॥ ५४॥ त्वयोक्तं यत्तु (तत्त्व ?)तामेति भेदैर्नानाविधैर्विभो ।
[ अविद्यास्वरूपनिरूपणम् ]
श्रीभगवान्गुणत्रयस्य यत्साम्यं साऽविद्याऽनेकरूपिणी ॥ ५५ ॥ रागादीनां च दोषाणामुत्पत्तिस्थानमेव च ।
नारदः- ब्रममाप्त तु यस्सम्यगुपायः कथितः पुरा ॥ ५६ ।। स च किंलक्षणो ब्रूहि पश्चात्मेति त्वयोदितः।
[ जीवात्मनोनिरूपणम् ]
श्रीभगवान्यत्तस्थितं च चिद्रूपं स्वसंवेद्याधनिर्गतम् ।। ५७ ॥ रञ्जितं गुणरागेण स आत्मा कथितो द्विज ।
नारदःज्ञानमात्मस्वरूपं च माया तदञ्जिका तु वै ॥५८॥ आचक्ष्व भगवन्ब्रह्म प्राग्व(ग्य !)त्संचोदितं मया ।
तन्मे न विदितं सम्यग्यदर्थ क्रियते क्रिया ॥ ५९॥ 1 गौग्ये A.
For Private and Personal Use Only