SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ जयाख्यसहिता [प. ४ श्रीभगवान्इति तस्य जगद्धातुस्सर्वज्ञत्वाच नारद । महिमाऽयमनन्तस्य ईश्वरत्वाच्च विद्यते ।। ७३॥ तस्य सर्वातिशायित्वं यथा ते न मयोदितम् । अन्यथा विद्यते तस्य महिमाऽयं तथाऽच्युते ।। ७४ ॥ अनादिस्सर्वपूर्वत्वान्न सत्तन्नासदित्यपि । अप्रत्यक्षतयाऽक्षाणां तदसद्विजसत्तम ॥ ७५ ॥ स्वसंवेद्यं तु तद्विद्धि गन्धः पुष्पादिगो यथा । तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ।। ७६ ॥ तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते । नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ॥ ७७ ॥ अतस्सर्वगतत्वाद्वै सर्वतःपात्मभुः स्मृतः । ऊर्ध्व तिर्यगधोयातैर्यथोच्चै(?)र्भासयेद्रविः ॥ ७८ ॥ तद्वत्प्रकाशरूपत्वात्सर्वचक्षुस्ततो ह्यजः । यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः॥ ७९ ॥ भवेऽस्मिन्पाकृतानां तु न तथा तस्य सत्तम । समत्वात्पावनत्वाच्च सिद्धस्सर्वशिराः प्रभुः ॥ ८०॥ यथाऽनन्तरसास्सर्वे तस्य सन्ति सदैव हि । सर्वत्र शान्तरूपस्य अतस्सर्वमुखः स्मृतः ।। ८१ ॥ शब्दराशियतो विद्धि स एव परमेश्वरः। सर्वतः श्रुतिमांश्चातो यथा दृक्श्रावकोरगः ॥ ८२॥ अयापिण्डे यथा वह्निभिन्नस्तिष्ठत्यभिन्नवत् । तद्वत्सर्वमिदं देवो व्या(?)त्य परितिष्ठति ॥ ८३॥ निर्मले दर्पणे यत्किञ्चिद्वस्त्वभितिष्ठति । न च तदर्पणस्यास्ति अस्ति तस्य च तद्विज ॥ ८४ ॥ सेन्द्रियैस्तु गुणैरेवं संयुक्तश्चापि वर्जितः । अस्मिन्मायामये विश्वे व्यापी सर्वेश्वरः प्रभुः ॥ ८५॥ सर्वदा विद्धयसक्तश्च यथाऽम्भः पुष्करच्छदे । सर्वबैश्वरूप्याच्च अमोघत्वाच्च निर्गुणः ॥८६॥ 1 रताः S. & C. L. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy