________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ४
'स्वादीप्तं क्षोभयित्वा तु विद्युद्वत्स्पेन तेजसा । प्रकाशरूपी भगवानच्युतश्चा( तं चा ?)मृजविज ॥ ४ ॥ सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति च । आश्रित्य वासुदेवं च घमें(मों) मेघदलं यथा ॥५॥ क्षोभयित्वा स्वमात्मानं सत्यं भास्वरविग्रहम् । उत्पादयामास तदा समुद्रो बुद्धदं यथा ॥ ६ ॥ स चिन्मयप्रकाशाख्य उत्पाद्यात्मानमात्मना । पुरुषाख्यमनन्तं च प्रकाशमसरं महत् ॥७॥
[ पुरुषात्मनाऽऽविर्भूतस्य वासुदेवस्य सर्वदेवान्तर्यामित्वम् ] 'स च वै सर्वदेवानामाश्रयः परमेश्वरः । अन्तयोमी स तेषां वै तारकाणां यथाऽम्बरम् ॥ ८॥ सेन्धनः पावको यद्वत्स्फुलिङ्गनिचयं द्विज । अनिच्छतः मेरयति तद्वदेष परः प्रभुः ॥९॥ माग्वासनानिबद्धा ये जीवास्तान्बन्धशान्तये । स्वदेह ........................तदुभयं पुनः ॥१०॥
[ अवताराणां तदंशत्वम् ] ये स्विदाधावताराश्च लोकत्राणाधिकारिणः ।
सर्वान्विद्धि तदंशांस्तान्सर्वेऽशास्सत्त्वजास्तथा ॥ ११ ॥ [ पुरुषसत्याच्युतानामुत्तरोत्तरस्वरूपादमिन्नाना वासुदेवे परे रूपेऽवस्थितिः ]
स च सत्यादभिन्नस्तु तस्मात्सत्यं तथैव हि । 'द्वाभ्यामेकात्मरूपं यत्तदभिन्नमयोऽच्युतात् ॥ १२ ॥ आश्रितस्संस्थितस्ताभ्यामभेदेन सदैव हि । पुमान्सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु तत् ॥ १३ ॥
शान्तसंवित्स्वरूपे च वासुदेवेऽवतिष्ठते । [ चिद्रूपस्य वासुदेवस्य ततः प्रादुर्भूतस्याच्युतादिरूपत्रयस्य च सनिदर्श
नमभिन्नतानिरूपणम् ] सोऽन्तर्यामी प्रकाशात्मा चिद्रूपस्स प्रतिष्ठितः ॥१४॥ 1 स्वदीप्तं C. L. 2 स चैव A. 3 येस्मदा A. सर्वानपि 4 माम्या A.
For Private and Personal Use Only