________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३]
प्रधानसर्गाख्यानम्
प्रत्यक्चेतनमाश्रित्य तत्क्षणादवतिष्ठते । मन्त्रशक्तिरिवादृश्या तया सम्बोधितो द्विज ॥२१॥ विपाऽऽक्रान्तस्वरूपश्च प्रत्यगात्मा चिदात्मकः । ब्रह्मण्येकात्मतां याति कर्मवगें क्षयं गते ॥ २२ ॥ तस्माद्ध कर्मणां नाशो ह्यभुक्तानां न तस्य वै । न त्वाधारं विना तेषामभिव्यक्तिर्भवेदतः ॥ २३ ॥ तत्स्था ब्रह्मकला सा वै तत्रात्मानं नियोजयेत् । मायामये द्विजाधारे गुणाधारे 'तते जडे ॥ २४ ॥ शक्त्या संयोजितो ह्यात्मा वेत्त्यास्मीयाश्च वासनाः। शुभाशुभस्वरूपाश्च मायाधारे स्थितास्सदा ॥ २५ ॥ पदाऽलुप्तविवेको वै असक्तो वासनाफलम् । भुते चाशु स बन्धेभ्यो मुक्तो याति कमात्परम् ॥ २६ ॥ निर्विवेकोऽथ रज्येत मायाभोगे गुणात्मके । सवासनो वासनाभिरविकारश्च बध्यते ।। २७॥ लयोदयौ तथाऽऽनोति स विश्रान्तः पुनः पुनः चेतनाचेतनाभ्यां तु सम्वन्धस्य प्रयोजनम् ।। २८॥
कथितं नारद मया किमिदानीं वदामि ते । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रधानसर्गाख्यानं नाम तृतीयः पटलः
अथ शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः
नारदःशुद्धसर्गमहं देव वेत्तुमिच्छामि तत्त्वतः । सर्गद्वयस्य चैवास्य यः परत्वेन वर्तते ॥१॥ ( वासुदेवात्परब्रह्मणस्तदनन्यस्याच्युतादेराविर्मावः )
श्रीभगवान्यत्सर्वव्यापकं देवं परमं ब्रह्म शाश्वतम् । चित्सामान्यं जगत्यस्मिन्परमानन्दलक्षणम् ॥२॥ वासुदेवादि(द?)भिन्नं तु वदयन्दुशतमभम् । स वासुदेवो भगवांस्तद्धर्मा परमेश्वरः ॥ ३॥ 1 धर्मे A, 2 तु A. 3 ततो A.
For Private and Personal Use Only