________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३ परस्परजडानां च कीदृशं वद मे प्रभो । उत्पाद्योत्पादकत्वं हि अत्र मे संशयो महान् ॥ १० ॥ (जडाना मिथो हेतुहेतुमद्भावे उपपत्तिः)
श्रीभगवान्बीमं ह्यचेतनं यदत्तथा ब्रीहिकणो द्विज । अन्येषूत्पादकं दृष्टं तत्त्वं तत्त्वे तथैव च ॥११॥ गुणसाम्यस्वरूपस्य रागादेरास्पदस्य च । सन्तान एको होकस्य चेतनाचेतनस्य च ॥१२॥
नारदःअचेतनमिदं नाथ कथं स्याचेतनं पुनः । एतद्गुणास्पदं तत्त्वं यच्चैकं नैकथा स्थितम् ॥ १३ ॥ ( अचेतने चेतनायोगोपपादनम् )
श्रीभगवान्चिद्रूपमात्मतत्वं यदभिन्नं ब्रह्मणि स्थितम् । तेनैतरित भाति अचिचिन्मयवद्विज ।। १४ ॥ यथाऽयस्कान्तमाणना लोहस्याधिष्ठितं तु वै । दृश्यते 'वलमानं तु तद्वदेव मयोदितम् ॥ १५॥
नारदःचिन्मयस्य जडस्यास्य सम्बन्धे हेतुरुच्यते । विरुद्धमेतदेवेश वेद्मि छायातपं यथा ॥१६॥ (चिदचितोः संयोगे बन्धे वियोगे च मोक्षे हेतुः)
श्रीभगवान्अनादिवासनायुक्तो जीवोऽयं वै चिदात्मकः । तद्वासनाएनोदार्थ परस्माब्रह्मणो द्विज ॥१७॥ तदर्मधार्मिणी सूक्ष्मा उदेत्येकान्तरूपिणी । शुद्धाशुद्धात्मिका शुद्धा परमानन्दरूपिणी ॥१८॥ शुदसगेक्रमेणैत्य आध्यात्म्यात्मनि तिष्ठति । करुणोदधिरूपेण भविना मोक्षदक्षमे ॥ १९ ॥ स हि सङ्कल्पयामास मोक्षो ह्यस्यास्तु कार्मिणः। ततो विश्वात्मशक्तिस्सा तदिच्छानुविधायिनी ॥ २०॥ 1.पल A. 2 अध्यात्मात्मनि A.
For Private and Personal Use Only