________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २-३]
ब्रह्मसर्गाख्यानम् माधानिको द्विजाऽस्याद्यस्तस्याद्यो वैष्णवः परः । किमन्यत्कथयिष्यामि ब्रूहि यवास्ति संशयः ॥ ७५ ॥
अद्यापि मुनिशार्दूल तदहं प्रव्रवीमि ते । इति श्रीपाश्चरात्रे जयाख्यसंहितायां ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः
अथ प्रधानसर्गाख्यानं नाम तृतीयः पटलः
__नारदःभगवन्देवदेवेश लोकनाथ जगत्पते । ब्रूहि प्राधानिकं सर्ग स्थूलस्थास्य हि यः परः ॥ १॥
श्रीभगवान्
(प्रधानलक्षणम् ) अनादिमजमव्यक्तं गुणत्रयमयं द्विज । विद्धि प्रदीपस्थानीयं भिन्नमेकात्मलक्षणम् ॥ २॥
( प्रधानात् क्रमान्महदादितत्त्वोत्पत्तिः ) विभक्तं च तदुत्पन्न क्रमात्सत्वं रजस्तमः । गुणत्रयसमूहाद्धि धर्मज्ञानादिलक्षणा' ॥ ३ ॥ बुद्धिर्बुद्धिमतां श्रेष्ठ अहङ्कारस्त्रयात्मकः । प्रकाशात्मा विकृत्यात्मा भूतात्माऽथ तृतीयकः ॥४॥ तेजसात् समनश्चैव जातं बुध्यक्षपञ्चकम् । श्रोत्रे त्वक्चक्षुषी जिह्वा घ्राणं चैव क्रमेण तु ॥५॥ असूजच्च विकृत्यात्मा करणानां च पञ्चकम् । तच वाक्पाणिपादाख्यं पायूपस्थेति च स्मृतम् ॥६॥ भूतात्मा भूतयोनीनां स्रष्टा विद्धि सदैव हि । शब्दस्पर्शी तथा रूपरसगन्धाभिधायिनः ।।७।। तेजो(भ्यो?)भूतानि जातानि खवायवम्युदकानि च । पृथिव्यन्तानि पञ्चैव एकद्धिगुणानि च ॥८॥ एष माधानिकस्सर्गः प्रकृत्या तु जडात्मकः ।
नारदःजडात्मकं प्रधानं च तदुद्भूतिस्तदात्मिका ॥९॥ 1 णात् A. 2 ज्ञानात्मा S. 3 त्मना A.
-
For Private and Personal Use Only