________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहिता
[प. २
[ भगवता कृतमभयप्रदानम् ] तदा विभावतीर्णोऽहं ममत्वे ग्लानिमागते ॥ पणष्टेषु च वेदेषु ब्रह्मण्यब्रह्मतां गते ।। ६३ ।। दत्तं मयाऽभयं तेषां समाश्वस्तमिदं जगत । विद्या मायात्मकं रूपं द्विविधं च मया कृतम् ॥ ६४ ॥ [ विद्यामयरूपं परिगृह्य भगवता विरचितं पातालाद्वेदानामुद्धरणम् ] विद्यामयेन रूपेण शब्दब्रह्ममयेन च ।। पातालान्तर्गता वेदास्स्वीकृताः प्रणवेन तु ।। ६५ ॥ [विद्यामयरूपस्य भगवतोऽनुप्रवेशाच्चतुर्मुखस्य वेदावधारणम् ] संपविष्टस्ततश्चाइमिमां प(पा ?)योद्भवीं तनुम् । लब्धसंज्ञेन तेनाथ वेदा द्यावर्तिताः पुनः ।। ६६ ॥ तदा भुवननाथाश्च सर्वे हृष्टतमाः स्थिताः। तमोमोहभयान्मुक्ताः स्वकं स्थानं समाश्रिताः ।। ६७॥ [ मायामयं रूपं परिगृह्य ताभ्यां सह भगवतो युद्धाचरणम् ] द्वितीयेन तु रूपेण तयोरग्रे स्थितोऽभवम् । तौ तु दुष्टौ मदोन्मत्तौ मम युद्धाभिलाषिणौ ॥ ६८ ॥ ततो मायात्मकेनैव वपुषाऽनेकबाहुना। बहून्यब्दसहस्राणि योधितौ तौ तदा मया ॥ ६९ ॥
[ तयोरजेयत्वमालक्ष्य मन्त्रमयरूपं परिगृह्य तयोर्हननम् ] ज्ञात्वा तयोरजेयत्वमहमन्तर्हितो द्विज । ततो मन्त्रमयं रूपं कृत्वा शक्त्यात्मकं महत् ॥ ७० ॥ तत्ताभ्यां चैव दुर्धर्ष दुनिरीक्ष्यं तथाऽर्कवत् । लीलया फरयुग्मेम गृहीत्वा कण्ठतो मया ॥ ७१ ॥ ऊरूभ्यां मर्दितौ चैव ययुनिष्कण्टकास्मुराः ।
[ मेदिनीशब्दनिर्वचनम् ] तदुद्भूतेन मेदेन परिपूर्णा वसुन्धरा ॥ ७२ ॥ ततः प्रभृति कालाच मेदिनीति निरुच्यते । इत्येष कथितस्सर्गो मुने ब्राह्मो मया तव ॥ ७३ ॥ अन्ये अनेकरूपाश्च सर्गा बहुतरा गताः। ईदृक्पकाशाः स्थूलाश्च येषा सङ्कथा न विद्यते ॥ ७४ ॥
For Private and Personal Use Only