________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. २ ]
ब्रह्मसर्गाख्यानम्
गगनञ्चातिमायेन दुस्तरं तद्वदस्व मे ॥ २६ ॥
[ भगवता कृतं सकलनिष्कलात्मकस्वीयरूपद्वयप्रदर्शनम् ] शाण्डिल्य:
इति सञ्चोदितो भक्त्या परया परमेश्वरः । विशुद्धबुद्धिना सम्यक् नारदेन सुरर्षिणा ॥ २७ ॥ तदुक्तस्य क्षण तस्मिन्नात्मीयो गहनश्च यः । प्रदर्शितस्स हरिणा सकलो निष्कलात्मकः || २८ ॥ परितोषं परं यातो मुनिर्ब्रह्मसुतस्तदा ।
उवाच परया प्रीत्या भूयस्स विनयान्वितः ॥ २९ ॥ त्वत्प्रसादान्मया ज्ञातं दुर्लभं यत्सुरैरपि । इदानीं श्रोतुमिच्छामि सम्भूतिं विभवं तव ॥ ३० ॥ [ लोकस्य सृष्टिप्रलयकालौ ] श्रीभगवानुवाच
यदिदं पश्यसि ब्रह्मन्मायया निर्मितं जगत् । कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः ॥ ३१ ॥ मामके प्रभवो ह्नि मलयश्च निशागमे ।
दिव्यं युगसहस्रं च मदीयं विद्धि वासरम् ॥ ३२ ॥ रात्रिश्च तावती ज्ञेया एवंरूपे क्षये सति । प्रवर्तमाने त्वहनि काले सर्गाख्यलक्षणे ॥ ३३ ॥
w
[ भगवतो नाभीकमलात् चतुर्मुखसृष्टिः ]
स्वकारणमनिर्जित्य कार्यार्थ मुनिपुङ्गव । ज्ञानयोगप्रभावेन अम्मयं महिमावृतम् ॥ ३४ ॥ प्रेरितं नाभिरन्ध्रेण मया हार्द कुशेशयम् । विज्ञप्तिमात्ररूपं यन्ममान्तःकरणस्थितम् ॥ ३५ ॥ सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् । सहस्रवह्निगर्भ च हेमनालं महाप्रभम् || ३६ || तन्मध्ये मानवो ( सो ? ) ब्रह्मा मया सृष्टचतुर्मुखः । [ तस्य चतुर्मुखस्य विद्याशक्तिविशेषयोगः ]
जगतां प्रभवस्तस्माद्विद्यादेहस्सनातनः ॥ ३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१