________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
जयाख्यसंहिता
[प.१
स्वयं तेनैव रूपेण समाराधयदच्युतम् । महाशान्तगजेन्द्रोऽथ त्रेतायां हरिमार्चयत् ॥ ८९ ॥ स्वकराग्रोद्धतैः परिथ ग्राहेण पीडितः। शरणागतिमाधाय वरदेन विमोचितः ॥ ९० ॥ हरिणा धाम निन्ये स्वं वाहनेन गरुत्मता ।। अथ द्वापरसंज्ञे तु युगे देवगुरु स्वयम् ॥ ९१ ॥ आराध्य वरदं देवं स्वाभीष्ट सिद्धिमानुत । ततः कलियुगस्यादो ब्रह्माणं वरदोऽब्रवीत् ॥ ९२ ॥ परामृशन् जगत्सवे प्रहृष्टेनान्तरात्मना । कालोऽयं कलिरायातः सर्वे स्वाथेपरा जनाः॥ ९३ ॥ न कोऽपि तत्त्वतो भक्तो द्रक्ष्यते कालविप्लवात् । अयुते वा परार्धे वा यदि कोऽपि च तादृशः ॥ ९४ ॥ संभाव्यते गुणोत्कृष्टं न ते लोकोऽनुमंस्यते । दोषानारोपयेत्कश्चिन्मत्सरात्तस्य मूनि ॥ ९५ ॥ तं तथैवेति सर्वेऽन्ये घोषयिष्यन्ति सर्वशः। अन्ते तस्यापि नैराश्याच्युतिरेव मनोगतेः ॥ ९६ ॥ भविष्यति तथा नाम कालोऽयं कलिरूर्जितः।। अतो न रोचते वत्स हस्तिशैलस्य मूर्धनि ॥ ९७ ॥ दिव्येनानेन रूपेण वस्तुं काले कलाविह । प्रतिज्ञातं च कल्पान्तमवस्थानमिहैव मे ॥ ९८ ॥ अतोऽत्र क्रियतामेवमहं त्वामनुमानये । वरदोऽहं विधे भक्तजनानां करुणाकरः॥९९ ॥ अतः स्थलमिदं पुण्यं त्यागमण्टपमुच्यताम् । योगमण्टपसंज्ञातु श्रीरङ्गस्य मया कृता ॥ १० ॥ पुष्पमण्टपमित्याख्या वेङ्कटादेविराजताम् । अन्यद्यदुगिरिस्थानं विधामण्टपमुच्यताम् ॥१०१ ॥ सर्वोत्तममिदं पुण्यं क्षेत्रं स्थानं च शोभनम् । मम प्रीतिकरं दिव्यं मुक्तिक्षेत्रेषु चोत्तमम् ॥ १०२॥ नैतस्य सदृशं किञ्चित् क्षेत्र वा तीर्थमेव वा। अतो मदाज्ञया ब्रह्मन् आलयोऽत्र विधीयताम् ॥ १०३ ॥
For Private and Personal Use Only