________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
]
शास्रारम्भप्रयोजनम् सर्वमन्त्रस्वरूपत्वात् सर्वेभ्योऽभ्यधिको भुवि । संस्थानस्यालयस्यास्य स्वरूपं परमार्थतः ॥ १०४ ॥ न वेत्तुं प्रभवदन्यो मदीक्षावीक्षितानरात् । कलिकालोचितां रीतिमाश्रित्य मनसा मया ॥ १०५ ।। पाश्चरात्राहयं तत्रं यथावदवतारितम् । तदुक्तेन प्रकारेण मूलकर्मोत्सवाश्रयाः ॥ १०६ ।। तिस्रो मूर्तीः प्रतिष्ठाप्य पूजनं प्रतिपादय । बल्यर्चा च विधानेन सादरं परिकल्प्यताम् ॥ १०७ ॥ रत्नेषु त्रिष्वपि श्रेष्ठं जयाख्यं तन्त्रमुच्यते । तदुक्तेन विधानेन प्रतिष्ठादि भवत्येताम् ।। १०८।। काण्वी शाखामधीयानावौपगायनकौशिकौ । प्रपत्तिशास्त्रनिष्णातौ स्वनिष्ठानिष्ठितावुभौ ॥ १०९ ॥ जयाख्यतत्रमार्गेण दीक्षयित्वाऽब्जमण्डले । आचार्यके चाभिषिच्य ताभ्यां पूजां प्रकल्पय ॥ ११० ॥ तगोत्रसंभवा एव कल्पान्तं पूजयन्तु माम् । जयाख्येनाथ पाझेन तश्रेण सहितेन वै ॥ १११ ॥ मूलव्याख्यानरूपाभ्यां समर्चयतु मां सदा । न तत्रसङ्करो दोषस्तत्रयोरनयोरिह ॥ ११२ ॥ आचार्यके तथाऽऽत्विज्ये पूजने वा ममाब्जज । तावेतौ गोत्रिणौ मुख्यौ मम प्रीतिकरौ मतौ ॥ ११३ ॥ परिचर्यासु तत्तासु योग्यानिर्णीय चेतसा । दीक्षयित्वा च ते तत्र नियुज्यन्तां यथाविधि ॥ ११४ ॥ अत्राधिकार उभयोस्तयोरेव कुलीनयोः । शाण्डिल्यश्च भरद्वाजो मुनिर्भीआयनस्तथा ॥ ११५ ॥ इमौ च पञ्चगोत्रस्था मुख्याः काण्वीमुपाश्रिताः । श्रीपाश्चरात्रतत्रीये सर्वेऽस्मिन् मम कर्मणि ॥ ११६ ॥ इह ताभ्यां चिरं वत्स तोपितोऽस्मि तपोबलात् । तयोरयं वरः प्रीत्या प्रादायि प्रार्थितो मया ॥ ११७ ॥ मन्त्रैः कातीयसूत्रेण निर्दिष्टैदिकैः सह । भगवच्छात्रसंसिद्धैर्दिव्यैर्मवैर्विमिश्रितैः ॥ ११८ ॥
For Private and Personal Use Only