________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रारम्भप्रयोजनम् आदरादनुगृह्णानः स्मिताश्चदधरान्तिकः । एवं स्वयमुदात्तेन रूपयौवनशोभिना ॥ ७४ ॥ विग्रहेणोदितं देवं रमाकान्तं जगत्पतिम् । आसेव्य सर्वे संहृष्टाः कृताथेनयनोदयाः॥७५ ॥ अहो भाग्यमहो भाग्यमित्युच्चैरुदघोषयन् । चतुर्मुखोऽपि नयनरष्टाभिर्देवमच्युतम् ।। ७६ ॥ प्रणतार्तिहरं नाथं वरदं समसेवत । सहसंभ्रमो नानाचेष्टास्तास्ताः स्वयं चरन् ॥ ७७॥ क्रमेण शान्तसंरभ्भो देवो नाभिप्रचोदितः । वत्स सत्यव्रतक्षेत्रमाहात्म्यं पश्य पद्मज ॥ ७८ ॥ एकेन हयमेधेन सहस्रस्य फलं त्वया । कांक्षितं तेन चित्तस्य शुद्धिस्तेन च चेतसः ॥ ७९ ॥ स्थैर्य तेन च निष्पत्तिानस्येतीप्सितं त्वया । अन्ते प्रतीक्षितं यत्ते फलं पर्वक्रमास्किल ॥ ८० ।। प्रथमे पर्वणि प्राप्तं सुखेनैव प्रजापते । प्रसन्नोऽस्मि तवानेन हयमेधेन सुव्रत ॥८१॥ वपारसोऽयं मधुरो मम हृयो मनोऽहरत् । पारमैकान्तिसौरभ्यसारामृतमनोहरा ।। ८२ ॥ वपेयं सर्वभक्ष्येभ्यो मम प्रीतिकरी सदा। वरं वरय तस्मात्त्वं यथाऽभिमतमात्मनः॥ ८३॥ सर्व संपत्स्यते पुंसां मयि दृष्टिपथं गते । इति देवेन संदिष्टः प्रहृष्टः परमार्थवित् ॥ ८४ ॥ ब्रह्मा प्रणम्य बहुशः स्तुत्वा च प्रार्थयद्विभुम् । वैकुण्ठे तु यथा लोके यथैव क्षीरसागरे ।। ८५ ॥ तथा सत्यव्रतक्षेत्रे निवासस्ते भवेदिह । हस्तिशैलस्य शिखरे सर्वलोकनमस्कृते ॥ ८६ ।। पुण्यकोटिविमानेऽस्मिन् पश्यन्तु त्वां नरास्सदा । इति संमार्थितो देवो भगवान् भक्तवत्सलः ॥ ८७ ॥ हिताय सर्वलोकानां तथाऽस्त्वित्यन्वमोदत । तस्मिन् कृतयुगे ब्रह्मा देवदेवमधोक्षजम् ॥ ८८ ॥
For Private and Personal Use Only