________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
वृथैवाचरितं कष्टमियता मन्दबुद्धिना । देवावाससमारोहावरोहाभिख्यकेलितः ॥ २९ ॥ निर्मोचनार्थमेकोsपि क्षणो हन्त न यापितः । अथालम्ब्य धृतिं धीमान् भूलोकं प्रत्यपद्यत ॥ ३० ॥ गङ्गामध्ये महद्वोरं तपस्तप्तुमुपाक्रमत् I अङ्गष्टाग्रपदात्तिष्टनिरुद्धश्वासचेष्टितः ।। ३१ ।। ऊर्द्धबाहुर्निराहारस्तपस्तेपे सुदारुणम् ।
कापेयचपलं चित्तं न स्वास्थ्यं प्राप तस्य यत् ॥ ३२ ॥ क्षणमात्रमपि श्रीशं न ध्यातुं प्राभवत्ततः । अथ दीने कुशे घातर्याकाशादशरीरिणी ॥ ३३ ॥ वाणी प्रादुरभूत्पुण्या बोधयामास पद्मजम् । अधिकारमहानन्दरसमनस्य ते मनः ।। ३४ ।। सहस्रेणाश्वमेधानां विनाशुद्धिं न गच्छति । अशुद्धस्येह मनसः स्वास्थ्यं संपाद्यतां कथम् ॥ ३५ ॥ अस्वस्थे मनसि ध्यानं साधु निष्पद्यतां कथम् । कर्तव्य गौरवात्कालविलम्बाच्च विभेषि चेत् ।। ३६ ।। उपायं सुकरं वक्ष्ये यथावदवधारय । गङ्गाया दक्षिणे भागे योजनानां शतद्वये ।। ३७ ।। पञ्चयोजनविस्तारं पञ्चयोजनमायतम् । तीरान्तं पूर्ववाराशेः सर्वैः सुमहितं गुणैः ।। ३८ ।। सिद्धिक्षेत्रं महापुण्यं श्रीशस्याभिमतं परम् । सत्यव्रतमिति ख्यातं यथार्थाख्यावभासकम् ।। ३९ ॥ एकस्तत्र कृतो धर्मो वर्षते हि सहस्रधा । तत्र त्वमश्वमेधेन यजेरेकेन चेद्धरिम् ॥ ४० ॥ सहस्रस्याश्वमेधानां फलं प्राप्स्यसि निश्चितम् । तत्र शर्वतरे कल्पे दिग्गजा विष्णुमव्ययम् ॥ ४१ ॥ कस्यचिद्विरिवर्यस्य शिखरे पर्यपूजयन् । तेषामाविरभूद्देवः करुणावरुणालयः ॥ ४२ ॥ कमलाकामुकः कान्तविग्रहः कञ्जलोचनः । ततः प्रभृति शैलेन्द्रो ययौ करिगिरिप्रथाम् ॥ ४३ ॥
For Private and Personal Use Only
[ १० १