________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १]
शास्त्रारम्भप्रयोजनम् ईश्वर यादवाद्रौ च कार्यकारि प्रचार्यते । श्रीरङ्गाधादवाद्रेश्च हस्तिशैलो विशिष्यते ॥ १४ ॥ पद्मरागाच वैडूर्याद्यथा वजं महागुणम् । पुरा कृतयुगे ब्रह्मा साक्षात्कृत्य रमापतिम् ॥ १५ ॥ स्वयं समर्चयित्वाऽथ तदर्चाक्रममुत्तमम् । शिष्येभ्यो महनीयेभ्य उपदिश्य कृपावशात् ॥१६ ।। तैरेवाराधनं काले कारयत्यब्जसंभवः । इत्येवं नारदाच्छ्रुत्वा पुनरेवाहमब्रुवम् ॥ १७ ॥ भगवन् कमलाकान्तः कथं साक्षात्कृतः कदा । तदेतदेहि मे स्वामिन् हस्त्यद्रेश्चापि वैभवम् ॥ १८ ॥ इति पृष्टो मया पाह नारदो भगवान् ऋषिः । साधु पृष्टोऽस्म्यहं वत्स श्लाघनीयोऽसि मे मतः ॥१९॥ यदद्य करिशैलस्य वक्ष्यामि तव वैभवम् । पुरा मयोपसन्नेन भगवान् भूतभावनः ॥२०॥ जगत्स्रष्टा मुराधीशोऽनुयुक्तश्चतुराननः । हस्तिशैलस्य माहात्म्यं वरदस्य कृपारसम् ॥ २१॥ सत्यव्रतस्य क्षेत्रस्य वैभवं चान्ववर्णयत् । तत्तेऽहं संप्रवक्ष्यामि संग्रहेणैव सारवत् ॥ २२ ॥ सावधानः शृणु पीत्या गुह्यं सारमिदं यतः। भगवन्नाभिपाथोजाज्जातो धाताऽब्जसंभवः ॥२३॥ सृष्ट्वा चराचरं विश्वं गर्व परमुपाययौ । आभिजात्यं सदाचारो विद्या चेति मदत्रयम् ॥ २४ ॥ सोनेवाभिभवति किमु सर्वाधिके पदे । ततोऽसौ मत्तचित्तः सन् देवदेवं रमापतिम् ॥२५॥ साक्षाचिकीर्षुर्योगेन परं यत्नमुपागमत् । देवदेवस्वरूपादिसाक्षात्कारविरोधिना ॥ २६ ॥ अप्रमेयेन महता दुष्कृतेनैष वारितः। पुनः पुनः प्रयत्नपि सुमहत्यप्यनुष्ठिते ।। २७ ।। न स सिद्धिमनुपापत् समाधेः प्रत्यहन्यत । अथ चिन्तापरो दीनश्चिन्तयित्वा मुहुर्मुहुः ॥२८॥
२
For Private and Personal Use Only