________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१]
शास्त्रारम्भप्रयोजनम् तमेव वेदिकां कृत्वा वाजिमेधेन तं यज । लक्ष्मीवल्लभकारुण्यवीक्षावैभवतो महान् ॥४४॥ धन्यः कृतार्थो विमलो भविष्यसि न संशयः। इति वाणी समाकर्ण्य विरिञ्चो हृष्टमानसः ॥ ४५ ॥ क्षेत्रं सत्यव्रतं पुण्यं त्वरितं समुपागमत् । त्वष्टा हस्तिगिरेः शृङ्गं टकैः सन्तक्ष्य शोभनाम् ॥ ४६॥ यागाहों यजमानोऽयं यागवेदीमकल्पयत् । यथाशास्त्रं च लक्ष्मीशं सर्वकारणकारणम् ॥४७॥ ईजेऽजो वाजिमेधेन यागानामुत्तमेन सः। तत्र सर्वेषु मवेषु तत्तदैवतनामभिः ॥ ४८ ॥ पठ्यमानेषु धाताऽयं देवदेवं रमापतिम् । हृदये समनुध्यायंस्तस्मै सर्व हविर्हतम् ॥ ४९ ॥ भक्त्या समर्पयन्नेतदलमेकोऽपि वेदितुम् । सर्वमेव हविर्देवः पुण्डरीकेक्षणो हरिः॥ ५० ॥ स्वयमेव समादाय समास्वादयदादरात । स्वान् स्वान् भागापरीक्लुसान्कालेष्वनधिगच्छताम् ॥५१॥ उन्मुखानां वञ्चितानां देवानां क्षुभितं मनः । ब्रह्माणमथ ते सर्व समागत्यान्वयुञ्जत ॥ ५२ ।। किमिदं वर्तते मोहः क्षोशिता वञ्चिता वयम् । ब्रह्मा तु स्मयमानस्तान् सांत्वपूर्वमबोधयत् ॥ ५३॥ देवा मया पुरा सृष्टाः स्रष्टाऽहं भवतां पिता । किमेतत्पिता पुत्रानुपास्तां विनयादिति ॥ ५४ ॥ . संसारमार्गनिष्णातैस्तत्तत्फलमभीप्सुभिः। यूयमाराधनीया हि तदर्थमधिकारिताः ॥ ५५ ॥ सर्वान्तरात्मा सर्वेशो मम चापि पिता हरिः। कमलावल्लभो देवस्तमेवोद्दिश्य हूयते ॥ ५६ ॥ इह सर्व हविर्यज्ञे नाममात्र तु मन्त्रगम् । भवतां तत्तदर्थस्तु भगवान् कमलापतिः ॥ ५७ ॥ इयं मयज्ञसारस्य धोरणी सारमाधुरी । परमैकान्तिनां नृणामप्येषैव निबोषत ॥ ५८॥
For Private and Personal Use Only