________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.१ सच्छिष्यैर्ज्ञानसंपूर्णतश्चन्द्र इव ग्रहैः । दृष्ट्वा(ष्टो?) ज्ञानक्रियान्योऽसावृषिभिः प्रालिस्थितैः॥३४॥ स चाभिवादितस्सर्वैः क्रमातेन च ते तथा । पूजिताः फलमूलाधैरम्बुना कुसुमैस्सह ॥ ३५ ॥ निवृत्तेऽभ्यागते धर्मे सोत्सुकैर्भगवान्मुनिः । पृष्टस्तपोधनस्सर्वैः शाण्डिल्यस्सुरपूजितः ॥ ३६ ॥
[भगवत्तत्त्वतदाराधनप्रकारप्रश्नः ] भगवन्श्रोतुमिच्छामो विष्णोरद्भुतकर्मणः । उपासालक्षणं कर्म कथयस्व प्रसादतः ॥ ३७॥ श्रुतमत्यद्भुतं यस्मादस्माभिर्गगनान्तरात् । अज्ञाते भगवत्तत्वे दुर्लभा परमा गतिः ॥ ३८ ॥ तथाऽनाराधिते चैव सात्विकेन तु कर्मणा । सन्तारणार्थमस्माकमन्येषां 'भविनां तथा ॥ ३९ ॥ यथार्थ भगवद्धर्म वक्तुमर्हसि सर्वथा ।
[अस्य शास्त्रस्य प्रवृत्तिक्रमः
शाण्डिल्यःश्रुणुध्वं संयतास्सर्वे विष्णोरद्भुततेजसः ॥ ४०॥ सारभूतमिदं शास्त्रं ज्ञानोपनिषदं महत् । रहस्यमप्रकाश्यं च ब्रह्मगर्भ च शाश्वतम् ॥ ४१ ।। अनुग्रहार्थं च पुरा कथितं नारदस्य तत् । तथाचातिरहस्यत्वाल्लोकेऽस्मिन्न प्रकाशितम् ॥ ४२ ॥. न चापि चोदितं चैव केनचिद्धर्मगौरवात् । तथोक्तस्य (तथाऽनेक ?) दिनस्यान्ते अन्तर्धानगतं तु तम्(?)॥४३॥ भूयश्चैवावतीर्णेन विष्णुना प्रभ ष्णुना। मुने स्वांशभूतस्य यदुक्तं पुनरेव हि ॥४४॥ बदाश्रमसंस्थेन प्रभुना लोककारिणा । धर्ममार्गावतारार्थं व्रतेनानेन सत्तमाः॥४५॥ सिद्धानां शृण्वतां चैव तथा गगनचारिणाम् ।
-
I भाविनां A
2 सुस्थेन A
For Private and Personal Use Only