________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १]
शास्त्रारम्भप्रयोजनम् देवानां च ऋषीणां च नरादीनां तथैव च ॥ ४६ ॥ मृकण्डुताक्ष्यपूर्वाणामादित्यानां महात्मनाम् । किन्नराणां च दैत्यानां वसूनां भावितात्मनाम् ॥४७॥
साङ्ख्यानां योगसिद्धानां ज्ञानविज्ञानवेदिनाम् । [ गुरोनारदादधिगतस्यास्य शास्त्रस्य मुनीन् प्रति यथाधिगतमुपदेशप्रतिज्ञा ] तच्छृणुध्वं मुनिश्रेष्ठाः धर्म संसारतारकम् ॥४८॥ यादृमाप्तं मया पूर्व परितुष्टाच नारदात् । सर्वज्ञानक्रियायुक्तं सर्वसिद्धिप्रसाधनम् ॥ ४९ ॥ संक्षिप्तं च महाथै यत्तथा सम्यग्विवेकदम् । ज्ञात्वैवं सारभूतं च अधीतं हि पुरा मया ॥ ५० ॥ यस्माद्वै धर्मकामार्थमोक्षाणामाशुसिद्धिकृत् । अधीस च श्रुतं पश्चात् ज्ञानानां ज्ञानमुत्तमम् ॥ ५१ ॥ यत्प्रसादात्तु वै भूयो भवेऽस्मिन्न भवाम्यहम् । ताष्मभ्यं प्रवक्ष्यामि आम्नायेन यथास्थितम् ॥५२॥
[श्रद्धाभक्तिपूर्वकमुपसन्नस्यैव शास्त्रस्यास्योपदेशे पात्रता । ] रहितं संशयैस्सर्वैगुरुशिष्यक्रमेण तु । परिज्ञातं क्रमेणैव यस्माच्छास्त्रं फलपदम् ॥ ५३ ॥ तस्मानयं द्विजाः पूर्वमाश्रयध्वं प्रयत्नतः । भक्तिश्रद्धासमेतं तु अस्तित्वे(आस्तिक्ये?)नाप्यलङ्कृतम् ॥ ५४ ।। सर्वस्वमपि यो दद्यात् भक्तिश्रद्धाविवर्जितः। नयाचारविनिर्मुक्तो मानी शास्त्रार्थदूषकः ॥ ५५ ॥ न तस्य शास्त्रं वक्तव्यं ब्रूते वा यस्स यात्यधः । समाचारेण यो ब्रूयाच्छृणुयाद्यश्च तावुभौ ॥५६॥ गच्छेतां तु जगद्योनेः पदं घोरविपर्ययात् ।
[गुरोर्महिमानुवर्णनगर्भ गुरौ भक्तेः श्रेयःसाधनत्ववर्णनम् ] शास्त्रायत्ता यतः सर्वे भोगमोक्षादयो द्विजाः ॥ ५७ ॥ वैष्णवं ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम् ।
1 रादि A 2 द्वाऽपि A 3 घोरे A 4 वैष्णवज्ञान A
For Private and Personal Use Only