________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. १ ]
शास्त्रारम्भप्रयोजनम्
संशयेऽभिनिविष्टास्तु दीर्घकालं यदा तदा ॥ २० ॥ पुनरेवोत्थिता वाणी गगनादमृतोपमा । [ परतत्त्वविवेचनम् ]
यत्तदक्षरमक्षोभ्यं परं ब्रह्म सनातनम् ॥ २१ ॥ परा गतिर्या सर्वेषामच्युतं वित्त तद्विजाः । मुनयो ब्रह्मनिष्णाता यमाश्रित्य भवोदधिम् ॥ २२ ॥ तरन्ति पुण्डरीकाक्षो' देवो नारायणस्तु सः । शङ्खचक्रधरं विष्णुमानन्दस्यन्दनिर्भरम् ॥ २३ ॥ ये संश्रयन्ति तं भक्त्या सूक्ष्ममध्यात्मचिन्तकाः । ते यान्ति वै पदं विष्णोर्जरामरणवर्जिताः ॥ २४ ॥ इत्युक्त्वा च ततो भूयः सा वागस्तमिता यदा । तदा वयं हृष्टतुष्टाः प्रायशो विगतज्वराः ।। २५ ॥ श्रीवत्साङ्कवपुर्देवखाता 'शास्ति जगत्रये । चेतसोऽवस्थितिं कृत्वा ऋषिभिश्च तपोधनैः ।। २६ ॥ चिन्तितं च तदा भूयो ज्ञास्यामस्तं कथं विभुम् ।
[ परतत्त्वाधिगमोपायजिज्ञासया शाण्डिल्यं प्रत्यभिगमनम् ] को वेत्ता देवदेवस्य त्रैलोक्येऽस्मिन् 'यथार्थतः ॥ २७ ॥ प्रसन्नः कस्य भगवान परमात्माऽप्यधोक्षजः । प्रभावात्तपसः सर्व चिन्तितं मनसा तदा ।। २८ ॥ यथावद्विदितं पश्चात्सर्वेषां भावितात्मनाम् । कृतकृत्यो जगत्यस्मिन् शाण्डिल्यः श्रूयते भुवि ॥ २९ ॥ ते चैवं स्वाश्रमात्सर्वे फलपुष्पकरोद्यताः ।
प्रयाताः स मुनिर्यत्र कृतकृत्योऽवतिष्ठते ॥ ३० ॥ सुखासीनो द्विजैः सार्धं योगैश्वर्यसमन्वितः । तपसा तेजसा युक्तः पर्वते गन्धमादने ॥ ३१ ॥ नानाश्चर्यसमायुक्ते नानापुष्पोपशोभिते । फलद्रुमसमाकीर्णे नानाधातुविचित्रिते ॥ ३२ ॥ सिद्धैरध्यासिते रम्ये देवजुष्टे मनोरमे । तपशीलैस्मृदान्तैश्च योगत्रतपरायणैः ॥ ३३ ॥ काक्षं A 2 तथा S 3 चास्मिन् A 4 तथा A
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
5 यथास्थितिम् A