________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १ (सन्तोषनियमाढ्यं च व्रतचर्यासमन्वितम् )
[ निःश्रेयसालाभान्महर्षीणां निर्वेदः ] कालेन तपसोऽन्ते वै' वयं सद्धर्ममास्थिताः । सिद्धिगोचरममाप्ताः पोच्छ्रसन्तः पुनः पुनः ॥ ९ ॥ न विद्मः किं भविष्यामो ह्यद्यापि गहने भवे न स्थितिः शाश्वती स्वस्थे न च बन्धपरिक्षयः ॥ १० ॥ न चैवेह स्थिरा भोगाः किं कुर्यामोऽत्र "वैशसे इत्येवं गहने प्राप्ते तपसश्चानवस्थितेः ॥ ११ ॥ संप्राप्ताः स्म ततो मोहं तदा वाणी महत्यभूत् । भगवद्धर्मजिज्ञासानासक्तैः प्रचोदिता ॥ १२ ॥
[ परतत्त्वज्ञानस्य निःश्रेयसहेतुत्वम् ] न यज्ञवेदाधिगमैनच दानस्तु केवलैः क्रियाभिन त्वनेकाभित्रनैश्चान्द्रायणादिकैः॥ १३॥ स्वर्गे 'वै न भवेत् स्थैर्य बन्धमोक्षश्च वै कुतः। अज्ञाते परतत्वे तु शाश्वते चाक्षयेऽच्युते ॥१४॥ व्यापके तु जगन्नाथे नित्यतृप्ते निरञ्जने । इच्छारूपधरे नित्ये शुद्ध बुद्धे सुनिर्मले ॥ १५ ॥ एवमाधः परो देवो ज्ञातो यावन्न वै द्विजाः। तावदेवापवर्गस्तु दुर्लभो युगकोटिभिः ॥१६॥ तस्माद्यतध्वं येनाशु हृदावासो जगद्गुरुः । केवलं चित्स्वरूपश्च गुणगुण्यश्च निर्गुणः ॥१७॥ प्रसादमेति वै क्षिप्रमनाथानामसंशयः । अभूतपूर्वं श्रुत्वैवं स्थितास्ते हृष्टमानसाः ॥ १८ ॥ तस्मिन्नेव क्षणे पुण्ये श्रुतमात्रेण पुत्रक । किमेतत्केन कथितं किं तद्ब्रह्म ह्यनामकम् ॥ १९॥
ज्ञास्यामस्तत्कथं सम्यगेवमूचुः परस्परम् । I तु A. 2 प्रोंच्छ्सानाः S. 3 वेधसे S. 4 वा C L. 5 त्प्रभु: CL. 6 गुह्य. CL
For Private and Personal Use Only