________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३
स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः, शिम्बा खड्गपिधानयोः ।।१२८॥ जीवः प्राणेषु केदारे, वलजः पवने खलः। बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥१२९॥ भल्लातक आमलको, हरीतकबिभीतको । तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥१३०॥ पटः पुटो वटो वाटः, कपाटशकटौ कटः । पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ ॥१३१॥ मुस्तकुथेङ्गुदजम्भदाडिमाः, पिठरप्रतिसरपात्रकंदराः । नखरो वल्लरो दरः पुरश्छत्रकुवलमृणालमण्डलाः॥१३२॥ नालप्रणालपटलागलशृङ्खलकन्दलाः । पूलावहेलो कलशकटाही षष्टिरेण्विषु ॥१३३॥
इति स्वतस्त्रिलिङ्गाधिकारः ।
परलिङ्गो द्वन्द्वोऽशी डेऽर्थो वाच्यवदपत्यमिति नियताः । अस्त्रयारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे ॥१३४॥ प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः कचित् । प्रकृतिहरीतक्यादिर्न लिङ्गमतिवर्तते ॥१३५॥
For Private and Personal Use Only