________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१
ग्रहणवता नाम्ना न तदन्तविधिः ॥७५।। अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि
प्रयोजयन्ति ॥७॥ गामादाग्रहणेष्वविशेषः ॥७७।। श्रुतानुमितयोः श्रौतो विधिर्बलीयान् ॥७८॥ अन्तरङ्गानपि विधीन् यबादेशोबाधते ॥७९॥ सकृद्गते स्पर्द्ध यदाधितं तद्बाधितमेव ।।८।। द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः।। कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद्
वृद्धिस्तबाध्योऽट् च ।।८२॥ पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात्सन्धिकार्यम् ।। संज्ञा न संज्ञान्तरबाधिका ॥८४॥ सापेक्षमसमर्थम् ॥८५॥ प्रधानस्य तु सापेक्षत्वेऽपि समासः ॥८६॥ तद्धितीयो भावप्रत्ययः सापेक्षादपि ॥८७।। गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्वि__ भक्त्युत्पत्तेः प्रागेव समासः ॥८८॥ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च
नित्यैवापवादवृत्तिः ।।८९॥ आदशभ्यः सङ्ख्या सङ्ख्येये वर्त्तते न सङ्ख्याने ॥१०॥
For Private and Personal Use Only