________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
अपवादात् क्वचिदुत्सर्गोऽपि ॥ ५६ ॥ नानिष्टार्था शास्त्रप्रवृत्तिः ॥५७॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् ||५८|| प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ॥ ५९ ॥ अदाद्यनदाघोरनदादेरेव ||६० || प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव ॥६९॥ निरनुबन्धग्रहणे सामान्येन ॥६२॥ साहचर्यात् सदृशस्यैव ।।६३॥
वर्णग्रहणे जातिग्रहणम् ||६४|| वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते ॥ ६५ ॥ तन्मध्यपतितस्तग्रहणेन गृह्यते ॥ ६६ ॥ आगमा यद्गुणीभूतास्तग्रहणेन गृह्यन्ते ||६७ || स्वाङ्गमव्यवधायि || ६८॥
उपसर्गो न व्यवधायी ॥ ६९ ॥
येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ॥ ७० ॥ ऋकारापदिष्टं कार्य लकारस्यापि ॥ ७१ ॥ सकारापदिष्टं कार्य तदादेशस्य शकारस्यापि ॥ ७२ ॥ | ह्रस्वदीर्घापदिष्टं कार्य न प्लुतस्य ॥७३॥ संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य ॥७४॥
For Private and Personal Use Only