________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणनादिसर्गः चतुर्वाचकशब्दाः
अब्धिसंज्ञा' (नाम), अश्रमा:२, उपाया: २, ऐरावतदन्तनाम, कृताः, कृतायाः (उभौ द्यूतक्रीडासाधनीभूताऽक्षशब्दितस्य चतुरङ्कभागः' इति श०चि०) जातयः (वर्णाः), प्रतिष्ठा (स्त्री०) (छन्दोजातिविशेषः), ब्रह्ममुखनाम्, यामनाम, युगानि, वेदाख्या, सुखभाव:, सेनाङ्गानि, हरिबाहवश्चेत्येते चतुर्वाचकाः, शब्दाः स्युः।
पञ्चपर्यायौपञ्च (अन्) अस्य त्रिषु लिङ्गेषु त्रिषु वचनेषु च समानरूपाणि, पञ्चकम् (त्रि०)। अत्राह यादव:'घट्सज्ञा युष्म-दस्म-च्च-त्रिषु लिङ्गेष्वभेदवत्।।' इति वैजयन्ती। 'ष्णान्ता षट् १/१/ २४ षान्ता नान्ता च संख्या षट् संज्ञा स्यात्।। इति पाणिनीयेऽपि षान्ता (षष्), नान्ता (पञ्चत्रादयः) संख्या त्रिषु लिङ्गेषु वचनेषु च समानरूपाणि भवन्तीत्यर्थः।
पञ्चवाचकशब्दाः
अग्नयः, अर्थाः, असुसंज्ञा, इन्द्रियाख्या, एता:', पाण्डवाः', भूताः (पञ्चमहाभूताः), रुद्रमुखनाम, वाताख्या, विषयाः, शरनाम, सुप्रतिष्ठा (स्त्री०) (छन्दोजातिविशेष:), स्मरबाणा:, स्वर्गतरवश्चैत्येते पञ्चवाचकशब्दाः।
घटपर्यायौषट् (ए) त्रिषु लिङ्गवचनेषु समानरूपाणि।। षट्कम् (त्रि०)। षड्वाचकशब्दाः
अङ्गानि, अरिसज्ञा, ऋतुनाम, कार्तिकेयमुखनाम, गायत्री (स्त्री०) (छन्दोजातिविशेष:), गुणा:', चक्रवर्तिनः', चक्रार्द्धम्, ज्वरबाहुनाम्, तर्काः', त्रिशिरोनेत्रनाम, दर्शनानि, भदलम्,
(१) समुद्रस्य सर्वे पर्यायाश्चतुः संख्यावाचका बोध्याः। चतुः समुद्रभेदाः
(२) ब्रह्मचर्याश्रमः, गार्हस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासा (भैक्षुका) श्रम:-श्चेति चत्वार आश्रमाः स्युः।।
(३) भेदः, दण्डः, साम (अन्), दानम् चेति चत्वार उपाया: स्युः।। (४) ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रश्चेति चतस्रो जातयः (वर्णाः), स्युः। (५) अर्थाः = विषयाः, (६) युधिष्ठरः, भीमः, अर्जुन:, नकुलः, सहदेव–श्चैते पञ्चपाण्डवाः स्युः।
(७) ऊक्तं च (१) सन्धि (२) विग्रह (३) यानानि (४) संस्थाप्या (५) ऽऽसनमेव च। (६) द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम्॥' इ०श०चिं०१/९१६
(८) उक्तं च-(१) मान्धाता (२) धुन्धुमारश्च (३) हरिश्चन्द्रः (४) पुरूरवाः। (५) भरतः (६) फार्तवीर्णश्च षडेते चक्रवर्तिनः।।, इति ग्रन्थान्तरे।
(९) षट्तर्कभेदा:
For Private and Personal Use Only