________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः ग्रहवर्णनामानि-(१) रक्तः, (२) श्वेतः, (३) लोहितः, (४) हरितः, (५) पीतः, (६) सित:, (७) श्यामलः, चैते वर्णा रवे: क्रमात्सन्ति।
दिगीशनामानि–(१) रविः (२) शुक्र:, (३) मङ्गलः, (४) राहुः, (५) शनि:, (६) चन्द्रः, (७) बुधः, (८) गुरुश्चैते पूर्वादीनां दिशां प्रदक्षिणक्रमेण रव्यादयोऽधिपाः सन्ति।
पुरुषप्रहनामानि-रवि:, कुज: गुरुश्चैते पुरुषग्रहा: सन्ति। स्त्रीमहनामनी-चन्दः, शुक्रश्चैतौ स्त्रीग्रही स्त:। नपुंसकरहनामनी-बुधः, शनिश्चैतौ क्लीबग्रही स्तः। सजल (आर्द्र) ग्रहनामनी-चन्द्रः शुक्रश्चैतौ सजलावार्द्रग्रही स्त:। निर्जल (शुष्क) ग्रहनामानि-रवि:, मङ्गल: शनिश्चैते निर्जल (शुष्क) ग्रहाः सन्ति।
सजलनिर्जलग्रहनामनी-बुधः, गुरुश्चैतौ सजलनिर्जलग्रहावर्थात्सजलराशिगौ सजलौ निर्जलराशिगौ निर्जलावित्याशयः।
महावस्थानामानि-(१) वृद्धः, (२) स्तनपानम्, (३) बाल्यम्, (४) कौमारम् (व्रतस्थितम्), (५) यौवनम्, (६) मध्यः, (७) अतिवृद्धश्चैतानि ग्रहाणां वयांसीनात् क्रमाज्ज्ञेयानि।
ग्रहरसनामानि-(१) कटुकः, (२) क्षारम्, (३) कटुकः, (४) कषाय:, (५) मधुरः, (६) अम्ल: (७) तीक्ष्णम्, चैतेऽर्कात् क्रमात् रसाः सन्ति।।
प्रहद्रव्यनामानि-(१) ताभ्रम्, (२) मणिः, (३) सुवर्णम्, (४) शुक्तिः , (५) रौप्यम्, (६) मुक्ताफलम्, (७) लौहं चैतानीनात् क्रमाद् द्रव्याणि सन्ति।
प्रहरलनामानि–(१) माणिक्यम्, (२) मुक्ता, (३) प्रवालम्, (४) पुष्परागः (५) गारुत्मतम्, (६) वज्रम्, (७) नीलञ्चैतानीनात् क्रमाद् रत्नानि सन्ति।
ग्रहवखनामानि-(१) स्थूलम्, (२) रम्यनवम् (३) अग्निहतम्, (दग्धं) (४) जलहतम् (आर्द्र), (५) मध्यमम् (६) दृढम्, (७) जीर्णम्, चैतानीनात् क्रमाद् वस्त्राणि सन्ति।।
ग्रहक्रीडास्थाननामानि-(१) देवालयः, (२) जलतटम्, (३) अग्निस्थानम्, (४) विहारस्थानम्, (५) कोशस्थानम, (६) शयनस्थानम्, (७) उत्करप्रदेशश्चैतानीनात्, क्रमात् क्रीडास्थानानि सन्ति। ____ग्रहाधिदेवनामानि–(१) अग्निः, (२) जलम्, (३) स्कन्दः, (४) विष्णुः, (५) शक्रः (६) शची, (७) ब्रह्मा, चैतेऽर्कात् क्रमादधिदेवा: सन्ति।
सुखपदग्रहनामानि-चन्द्रः, बुधः, गुरुः, शुक्रश्चैते ग्रहाः प्रकृत्या नृणां सुखप्रदाः, स्युः। दुःखप्रदप्रहनामानि-रवि:, मङ्गलः, शनि:, राहुः, केतुश्चैतेग्रहा: प्रकृत्या नृणां दुःखप्रदा:
सत्त्वगुणप्रधानग्रहनामानि-रविः, चन्द्रः, गुरुश्चैते सत्त्वगुणप्रधानग्रहाः सन्ति। रजोगुणप्रधानप्रहनामनी-बुधः, शुक्रश्चैतौ रजोगुणप्रधानग्रही स्तः। तमोगुणप्रधानग्रहनामानि-भौमः, शनि:, राहुः, केतुश्चैते तमोगुणप्रधानग्रहा: सन्ति।
अहवर्णनामानि-(१) क्षत्रियः, (२) वैश्यः, (३) क्षत्रियः, (४) शूद्रः, (५) ब्राह्मणः, (६) ब्राह्मणः, (७) अन्त्यजश्चैतेऽर्कात् क्रमाद् वर्णाधिपाः सन्ति।
For Private and Personal Use Only