________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः गृही (इन्), जानि:, जामाता (तृ०), धव:, नर्मकील:, पतिः, परिणेता (तृ), पाणिग्रही (इन्), पाणिग्राहः, प्रणयी (इन्), प्राणनाथः, प्राणपः, प्राणपालः, प्राणपालकः, प्राणसमः, प्राणाधिनाथ:, प्राणेशः, प्राणेश्वरः, प्रियः, प्रेयान् (ईयसुन्), प्रेष्ठः, भरु:, भार्ता (तृ), भासुः, भोक्ता (क्त), यामाता (तृ), रतगुरुः, रम:, रमणः, रुच्यः, वरः, वरयिता (तृ), विवोढा (ढ), वोढा (ढ), सुखोत्सवः, सेक्ता (क्त), हृदयेश:।
क्वचित्तु–धनिकः, धनी (इन्) इति च दृश्यते।
स्वामिप०-अधिनाथ:, अधिनायकः, अधिपः, अधिपतिः, अधिभूः, अधिराजः, अधीश:, अधीश्वरः, अर्यः, इनः, इन्द्रः, ईट् (श), ईश:, ईशानः, ईशिता (तृ), ईश्वरः, नाथः, नायकः, नेता (तृ), पतिः, परिवृढः, पालः, पालकः, प्रभु, भर्ता (४), राट् (ज्), राजा (अन्), विभुः, सम्पाल:, सम्पालकः, स्वामी (इन्। __एकयोक्त्या भर्तृस्वामिनोः पर्यायाः-तिलकः, दयः, दयित:, पतिः, प्रियः, भर्ताः, वल्लभः, स्वामी (इन्।
मणिप०–मणिः (पुं०स्त्री०) रत्नम् (न०) (अजहल्लिङ्गम्), वसु (न०)।
रविपत्नीभेदाः-(१) सज्ञा, (२) छाया, (३) राज्ञी, (४) पृश्निः , (५) वडवा चेत्येते रविपत्नीभेदा: स्युः।
सज्ञापर्याया:-कालिन्दीप्रसूः, त्रसरेणुः, त्वाष्ट्री, धुमयी, प्रभा, प्रभावप्रसूः, मनुप्रसू: महावीर्या, यमजननी, यमप्रसूः, यमीमाता (तृ), योग्या. वैवस्वतजननी, सज्ञा, सरण्यु:, सरण्यू:, सुवर्चला, सूर्या, स्वरेणुः, (सुरेणुः), स्वातिः।
छायाप०-छाया, तपती, तपतीप्रसूः, प्रतिरूपिणी, भूमयी, भूमिमयी, मन्दजननी, मन्दप्रसू:, वरी, विक्षुभा, विष्टिप्रसूः, सज्ञाप्रतिकृतिः, सवर्णा, सावर्णिप्रसूः।
राज्ञीप०-राज्ञी, रेवन्तजननी, रेवन्तप्रसूः, रेवन्तमाता (तृ०, रेवन्ताम्बा। पृश्निप०-पृश्निः, सावित्रीजननी, सावित्रीप्रसूः, सावित्रीमाता (तृ)। वडवापर्याया:-अर्वती, अश्वा, दस्रजननी, नासत्यप्रसूः, दस्रप्रसूः, वडवा, वामी।
रविपुत्रनामानि–(१) कर्णः, (२) नासत्यौ, (३) यमः, (४) रेवन्त:, (५) वरुणः, (६) वैवस्वत: (सप्तमो मनुः), (७) शनि:, (८) सावर्णिः (अष्टमो मनुः), (९) सुग्रीव: (वानरेन्द्रः), चैते रविपुत्रा: सन्ति।
कर्णपर्यायाः-अङ्गराट् (ज), अर्कतनयः, चम्पाधिपः, राधातनयः, सूततनयः। रेवन्तप०-अर्करेतोजः, प्लवगः, राज्ञीतनयः, रेवन्त:, हयवाहनः। सुग्रीवप०-आदित्यसूनुः, तारापति:, रामसख:, रुमाप्रियः, वानरेन्द्रः, सुग्रीवः, हनुमन्मित्रम्।
रविपुत्रीनामानि-(१) कालिन्दी, (२) विद्युत् (द), (३) सावित्री, चैता रविकन्या: सन्ति ।
कालिन्दीपर्यायाः-अर्कात्मजा, कलिन्दकन्या, कलिन्दतनया, कलिन्दपुत्री, कालिन्दी, तपती, तपनतनूजा, तापी, यमभगिनी, यमस्वसा (स), यमानुजा, यमी, यमुना, शमनस्वसा (स),
For Private and Personal Use Only