________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः अतिप्राणी (इन्), अतिबली (इन्), अतिवीर्यः, अतिशौर्यः, अधिप्राणी (इन्), अधिबली (इन्), प्राणाधिक्यः, बलाधिक्य:, बलोत्कटः, बलोत्कर्षः, वीर्यवत्ता (स्त्री०), श्रेष्ठबल, श्रेष्ठवीर्यः, (५) अतिशक्तिता (स्त्री०) अत्यन्तप्राणी (इन्), अत्यन्तबली (इन्), अत्यन्तसत्त्व:, प्राणप्रधान:, बलप्रधानः, महोग्रवीर्यः, महोग्रसारः, वीर्यप्रधान:, शौर्यप्रधानः, (६) अतिपराक्रमः, स्फुरदंशुजाल:, (७) उत्कटकान्तियुक्तः, श्रेष्ठबलाधिशाली (इन्।
हीनबलग्रहपर्यायाः-(२) रिक्तः, (३) अप्राणः, अबल:, अवीर्यः, अशौर्यः, असारः, दुर्बल:, नि:प्राणः, नि:शौर्यः, निःसत्त्वः, नि:सारः, निर्बल:, निर्वीर्यः, विप्राणः, विबल:, विवीर्यः, विशौर्य: विसारः, (४) इतबलः, कृशबलः, क्षीणबलः, क्षीणवीर्यः, क्षीणसार:, गतप्राणः, गतबल:, बलमुक्तः, बलोज्झित:, बलोद्रिक्तः, वीतबलः, वीयोज्झित:, सारमुक्त:, हीनबल:, (५) ओजोरहितः, प्राणवर्जित:, बलवर्जितः, विधूतवीर्यः, (६) क्षीणपराक्रमः, हीनपराक्रमः, (७) पराक्रमवर्जितः।
कल्याणमात्रपर्याया:-कल्याणम् (न०), स्त्रियां कल्याणी, अन्ये टाबन्ताः। काम्यम्, कुशलम्, क्षेमम्, प्रशस्तम, भन्दम्, भद्रम्, भविकम्, भव्यम् भावुकम्, भासुरम्, मङ्गलम्, भद्रम्, शम् शस्तम्, शिवम्, शुभम्, श्रेय: (अस्), श्वः श्रेयसम्, श्वोवसीयसम्, सुकृतम्, सूनृतम्, प्रशस्तम्, शुभम्, शोभनम्, सत् (द्) (न०), क्वचित्तु-वरम्, श्रेष्ठम्, वरिष्ठम् वरीय: (ईयसुन्) (न०)।
अन्यत्रापिइष्टम्, उत्तमम्, हितम्, अतिशोभनम्, पुष्कलम्, श्रेय: (अस्), श्रेष्ठम्, सत्तमम्। अतिशोभनाद्याः शब्दा: शोभनस्य इत्यन्य।
क्वचित्तु-वरीय: (ईयसुन्), वरिष्ठम्, अप्यतिशोभनस्य। सुखपर्यायाः-कम्, निवृति:, शर्मम्, शर्म (अन्), शातम्, सातम्, सुखम्, सौख्यम्।
आनन्दपर्याया:-आनन्द:, आनन्दथुः, आमोद: आह्लादः, चित्तप्रसत्रता, तृप्तिः, नन्दथुः, नन्दिः, प्रमदः, प्रमोदः, प्रीति:, मदः, मुत् (द), शम्भरः, सम्मदः, हर्षः, हृष्टिः, हादः।
क्लेशप०-आदीनव:, आश्रव:, आस्रवः, क्लेशः, 'आदीनवः, दोषे कष्टे चेत्यन्ये।' क्लेशः, परिश्रमे इत्यन्ये।
दुःखप०-अकम्, अर्तिः, असुखम्, आभीलम्, आमनस्यम्, आर्तिः, कष्टम, कृच्छ्रम्, दुखम्, पीडा, प्रगाढ़ः, प्रसूतिजम्, बाधा, विराधनम्, वेदना, व्यथा।
अशुभप०-अनिष्टम्, अप्रशस्तम्, अरिष्टम्, अशस्तम्, अशुभम्, अशोभनम्, असत् (द्), नेष्टम्, रिष्टम्।
ग्रहभेदाः-(१) सूर्यः, (२) चन्द्रः, (३) मङ्गलः, (४) बुधः, (५) बृहस्पतिः, (६) शुक्र:, (७) शनि: (८) राहुः, (९) केतुश्चेत्येते नवग्रहा: सन्ति (१) गुलिकः (२) मान्दिश्चेति द्वावुपग्रहो। ताजिकशास्त्रे तु मुन्था इत्युपग्रह उक्तः।
आधुनिकैस्तु (१) हर्शल:, (२) न्येप्चयूनश्चेति प्लुटो इत्यपि एकोग्रह उक्तः।
For Private and Personal Use Only