________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३
प्रकीर्णसर्गः 'अन्त्यप०-अन्त:, अन्तिमम्, अन्त्यम्, चरमम्, जघन्यम्, पश्चिमम्, पाश्चात्यम्। अन्तरालप०-अन्तरालम्, विचालम्, शेषस्त्वन्यत्र।। अन्तरप०-अन्तरम्, मध्यम्, शेषस्त्वन्यत्र। 'निरन्तरप०-घनम्, निविडम्, निरन्तरम्, सान्द्रम्।
पंक्तिप०-आलि:ली, आवलिःली, ततिः, धोरणी, पंक्तिः, माला, राजिः, लेखा, वीथी, श्रेणि:-णी।
संलग्नप०-अनन्तरम्, अपटान्तरम्, अपदान्तरम्, अव्यवहितम्, संलग्नम्, संसक्तम्।
अधीनप०-अधीन:, आयत्तः, गृह्यकः, नाथवान् (मतु०), निघ्नः, परच्छन्दः, परतंत्र:, परवशः, परवान् (मतु०), पराधीनः, परायत्तः, वशः। एते त्रिलिङ्गाः स्युः।
समीपप०-अन्तिकम्, अभितः (स्) (अ०), अभ्यग्रम्, अभ्यर्णम्, अभ्याशम्; अभ्यासः, आसनम्, उपकण्ठम्, उपान्तम्, निकटम्, पार्श्वम्, सदेशम्, सनीडम्, सन्निकर्षः, सन्निकृष्टम्, सन्निधानम्, सन्तिधिः, समर्यादम, समीपम्, सविधम्, सवेश:, ससीमम्।
विरलप०-तनु, पेलवम्, विरलम्।
ह्रस्वप०-कुब्जम्, खर्वम्, नीच:, नीची, (स्त्री०), न्यक् (च) (न०) चान्त:, मन्थरम्, लघु, ह्रस्वः ।
उन्नतप०-उच्चम्, उच्छ्रितम्, उदग्रम्, उद्धरम्, उन्नतः, तुङ्गः, प्राशुः। दीर्घप०-आयतम्, दीर्घम्।
विस्तीर्णप० --उरु, गुरु, ततम्, पृथु, पृथुलम्, बहु, बृहत् (त्) (न०), महत् (त्) (न०), वड्रम्, वरिष्ठम्, विकटम्, विपुलम्, विशङ्कटम्, विशालम्, विस्तीर्णम्, स्फारम्।
स्थूलप०-पीनः, पीवा (अन्), स्त्रीपुंसयोस्तु पीवा, पीवरः, स्थूलः। अधिकप०-अतिरिक्तः, अधिकः, पुष्टः, प्रपुष्टः, समधिकश्चैते त्रिलिङ्गाः स्युः। अल्पप०-अल्पः, क्षुल्लम्, क्षुल्लकम्, स्तोकः। अत्यल्पप०-अणीय: (अस), अल्पिष्ठः, अल्पीय: (अस्), कनीयः (अस्)।
सूक्ष्मप०-अणुः, कणः, कृशम्, क्षुद्रम्, तनुः, तलिनम्, तुच्छम्, त्रुटि:टी, दभ्रम् पेलवम्, मात्रा, लव:, लेश:, श्लक्ष्णम्, सूक्ष्मम्।
बहुलप०-अदभ्रम्, पुरहम्, पुरु, पुरुहम्, पुरुहूः पुरुह्रौ। ल्कीबे तु पुरुहु। पुष्कलम्, प्रचुरम्, प्रभूतम्, प्राज्यम्, बहुः, बहुलम्, भूयः (अस्), भूयिष्ठम्, भूरि, स्फारम्, स्फिरम्।
अनेकप०-अनेकः, उच्चवचम्, नैकः, नानाप्रकारम्, बहुः, नैकविधम्, बहुविधम्।
नाना रूपप०-नानारूप:, नानाविधः, पृथग्रूपः, पृथग्विधः, बहुरूपः, बहुविधः, विविधः। एते त्रिलिङ्गाः।
समान (तुल्य) प०-तुल्यः, सदृक् श्), सदृशः, सदक्षः, सधर्मा (अन्), सन्निभः, (१) आखिर। (२) घना, अन्तर-रहित।
For Private and Personal Use Only