________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
ज्योतिर्विज्ञानशब्दकोषः 'उदाहरणप०-उदाहरणम् (न०), उदाहतिः (स्त्री)।
'नित्यप०-अजस्रम्, अनवरतम्, अनारतम्, अनिशम्, अविरतम्, आश्रान्तम्, असक्तम्, नित्यम्, संसक्तम्, सततम्, सन्ततम्, क्रियाविशेषणत्वे एषां क्लीबत्वम्। द्रव्यविशेषणत्वे वाच्य (त्रि०) लिङ्गत्वम्, ज्ञेयमिति।
अतिशयप०–अतिमर्यादम्, अतिमात्रम्, अतिवेलम्, अतिशय: (पुं०), अत्यर्थम्, उत्कर्षः (पुं०) उद्गाढम्, एकान्तम्, गाढम्, तीब्रम्, दृढम्, नितान्तम्, निर्भरः (पु०) बाढम्, भरः (पुं), भृशम्।
अत्रविशेष:अतिमर्यादमित्यारभ्य भृशशब्दपर्यन्तं नपुंसकलिङ्गे यदुक्तं तत्तु असत्त्वे द्रव्यवृत्तित्वाभावे एव ज्ञेयम्। यथा-शीघ्रं जुहोति। शीघ्रं कृतवा न्। भृशं मूर्खः। भृशं याति। सततं भुंक्ते, इति।
क्रियाविशेषणत्वे एषां शीघ्रादीनां मध्ये यत्सत्त्वगा मि द्रव्यवृत्ति तत् त्रिषु। तस्य द्रव्यस्य यल्लिङ्गं तदेवास्येत्यर्थः। यथा---शीघ्रा धेनु, शीघ्रा जरा। शीघ्रो मृत्युः। शीघ्रो वृषः। शीघ्र वयः, शीघ्रं गमनम्।
अतिशयोत्कर्षनिर्भरभराणां सत्त्वगमित्वं नास्ति। नित्यं पुंस्त्वम्।
४क्रमपर्यायाः-अनुक्रमः (पुं०), अनुपूर्विका (स्री०), आनुपूर्वी (स्त्री०), आनुपूर्व्यम् (न०), आनुवृत् (त्) (स्त्री०), आनुवृत्तिः (स्त्री०), क्रमः (पुं०), परिपाटि:-टी (स्त्री०), पर्याय: (पुं०)।
५उत्क्रमप०-अक्रमः, उत्क्रमः, क्रमविपर्ययः, व्यतिक्रमः, व्युत्क्रमः, एते पुंल्लिङ्गाः। ६अतिक्रमप०-अतिक्रमः, अतिपातः, उपात्ययः, पर्ययः।।
व्यतिक्रमप० –विपर्यय: (पुं०), विपर्याय:, (पुं०), विपर्यास: (०), वैपरीत्यम् (न०), व्यतिक्रमः (पु०), व्यत्ययः (पु०), व्यत्यस्त: (त्रि०), व्यत्यास: (पुं०)।
विपरीतप०-अपष्ठु, अपष्ठुरम्, अपसव्यम्, प्रतिकूलम्, प्रतिलोमम्, प्रतीपम्, प्रसव्यम्, वामम्, विलोमम्, एते क्लीबलिङ्गाः। व्यस्त: (त्रि०)।
शरीरस्य वामभागप० ---वामम्, सव्यम्। शरीरस्य दक्षिणभागप०१०-अपसव्यम्, दक्षिणाङ्गम्।
प्रथमप०११-अग्रम्, आदिः, आदिमम्, आद्यम्, पूर्वः, पौरस्त्यम्, प्रथमम्, एते त्रिलिङ्गाः। प्राक (अ०)।
मध्यमप१२-मध्यम, मध्यन्दिनम्, मध्यमम्, मध्यमीयस्, मध्यन्दिनम्, माध्यमम्।
(१) गणित की क्रिया वा दृष्टान्त (मिशाल)। (२) नित्य, निरन्तर, सतत, सर्वदा। (३) अधिकता (बहुतायता। (४) यथाक्रम (सिल सला), (५) विपरीतभाव, नियमविरुद्धता। (६) विरुद्धव्यवहार, नियम वा मर्यादा उल्लंघन (७) विपर्यय, क्रमानुसार न होन वाला। (८) विरुद्ध (उलटा)। (९) वायां अंग, (१०) दाहिना अंग। (११) पहला, (१२) बीच।
For Private and Personal Use Only