________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
दिग्सर्गः कर्काल्यन्त्येषु कौबेर्त्यां धनाप्त्यै सम्मुखे विधौ।। धनहानिः पृष्ठचन्द्रे सम्पत्सुखं च दक्षिणे। मरणं वामचन्द्रे स्यादीरितं गणकोत्तमैः इति।।
ग्रन्थान्तरे तु विशेष:--'अजमुखहरिचापांदिचारक्रमेण भ्रमति हरिदिशातश्चन्द्रमाश्चाष्टदिक्षु। घनतिथिशशिनेत्रे लेशमेघश्रुतीन्दुखभुजतिथिघटीभिर्दक्षिणाग्रे शुभं स्यात्।
पू० आ० द० नै० प० वा० उ० ई०
१७ १५ २१ १६ १७ १४ २० १५ सर्वघट्य:, आसां योगो वा (१३५) घट्य: दक्षिणे सम्मुखे चन्द्रे यात्रादिकं शुभ भवेत्। इति।
घातचन्द्रभेदाः-एकः, पञ्च, नव, द्वौ, षट्, दिशः, त्रयः, सप्त, वेदाः, अष्टौ, रुद्राः, अर्काः, मेषभात् क्रमतो घातचन्द्राः स्युः।।
तदुक्तं ग्रन्थान्तरेच–'पृथ्वी पञ्च खगा युग्मौ षट् पंक्तिर्वह्नयोऽद्रयः। युगा गजेशमार्तण्डा घातचन्द्रा हि मेषभादिति।। तत्फलं तत्रैव-यात्रायां बन्धनं रोगे मृत्युर्भङ्गस्तु संगरे। विधवा कन्यकोद्वाहे ज्ञेयं घातविधोः फलम्। इति। अस्य परिहारोऽपि उक्तो ग्रन्थान्तरे'तीर्थयात्राविवाहान्नप्राशनोपनयादिषु'। माङ्गल्यसर्वकार्येषु घातचन्द्रं न चिन्तयेत्।। इति।
योगिनीदिक्चारपर्यायाः-योगिनीदिक् चारः, योगिनीदिनिवास:, योगिन्याशाचारः, योगिन्याशावासः, इति।
योगिनीदिक्चारभेदाः-प्रतिपदि, नवम्यां, च योगिन्यावास: प्राच्याम्। तृतीयायामेकादश्यां, चाग्निकोणे तद्वासः। पञ्चम्यां त्रयोदश्यां चावाच्यां तद्वास:। चतुझं द्वादश्यां च निऋतिकोणे तद्वास:। षष्ठ्यां, चतुर्दश्यां च प्रतीच्यां तद्वासः। सप्तम्यां, पूर्णिमायां, च वायुकोणे तद्वासः। द्वितीयायां, दशम्यां, चोदिच्यां तद्वास:। अष्टम्याममायां, चेशकोणे तद्वासः। इति।
तदुक्तं ग्रंथान्तरे-'ब्रह्माणी संस्थिता पूर्वे प्रतिपन्नवमीतिथौ। माहेश्वरी चोत्तरे च द्वितीयादशमीतिथौ।। स्थिताऽऽग्नेये च कौमारी तृतीयैकादशीतिथौ। नारायणी च नैर्ऋत्ये चतुर्थीद्वादशीतिथौ।। पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे तथा। षष्ठ्यां चैव त्रयोदश्यामिन्द्राणी पश्चिमे स्थिता।। सप्तम्यां पौर्णिमास्यां च चामुण्डा वायुगोचरे। अष्टाम्यमावास्ययोश्च महालक्ष्मीशगोचरे।। इति। तत्रैव तत्फलम्-'योगिनी सम्मुखे नैव गमनादि प्रकारयेत्। इति। अपि च–'वामे शुभप्रदा पृष्ठे वाञ्छितार्थप्रदायिनी'। दक्षिणे धनहंत्री च सम्मुखे मृत्युदायिनी।।' इति।
दिक्शूलपर्यायाः-दिक्शूलम्, दिशाशूलम्, आशाशूलम् क्लीबे (दिग्विशेषगमने निषिद्धवारा:)।
For Private and Personal Use Only