________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
ज्योतिर्विज्ञानशब्दकोषः प्राणान् प्रयाणे 'हरेत्'। इति विद्यामाधवीये। लोटि-हरतु, हरतात्, हरताम्, हरन्तु। यथा-विघ्नं मुहर्ताकलितद्वितीयदन्तप्ररोहो ‘हरतु' द्विपास्य:।' इति मु०चिं०।
__ आत्मनेपदेलटि–हरते, हरेते, हरन्ते। वि०लि०-हरेत, हरेयाताम्, हरेरन्।
'अप + ह्रज्' अपहरणे (नाश करना) लटि–अपहरति, अपहरत:, अपहरन्ति। वि०लि०अपहरेत्, अपहरेताम्। अपहरेयुः। यथा-'भानुस्ताम्बूलदानादपहरति नृणां वैकृतं वासरोत्यम् इति गन्थान्तरे। लटि–परिहरति, परिहरतः, परिहरन्ति। (परिहरणे) (त्याग)। यथा— 'परिहरन्त्यु' परागपरागतम्' इति वि०१०। लटि-व्यवहरति, व्यवहरत: व्यवहरन्ति, (आचरण), तथा— तदपि चारु न चारुषितैर्मुखै र्व्यवहरन्ति' तथा वितथाशयाः। इति वि०१०।
'ग्रसु' अदने (खाना) भ्वादौ आत्मनेपदे। (स०)। लटि-ग्रसते, असेते, असन्ते। वि०लि०-ग्रसेत, असेयाताम्, ग्रसेरन्। ल्युटि-ग्रसनम्। ‘ग्रस' ग्रहणे (ग्रहण करना, पकड़ना, ग्रसना) (चुरादौ–'णिजि'। (स०)। लटि-ग्रासयति, ग्रासयतः, ग्रासयन्ति। वि०लि०-ग्रासयेत्, ग्रासयेताम्, ग्रासयेयुः। 'छद' अपवारणे (ढकना)। (चुरादौ) 'णिजि'। (स०)।
लटि-छादयति, छादयत:, छादयन्ति। वि०लि०-छादयेत्, छादयेताम्, छादयेयुः। यथा-'छादयत्य' कमिन्दुविंधुं भूभा' इति ग्र०ला ५/३।
अथवा—'राहुः कुभामण्डलग: शशाङ्क शशाङ्कगश्छादयतीनबिम्बम्। इति सिद्धान्तशिरोमणौ। 'भू' सत्तायाम् (होना)। भ्वादौ-परस्मैपदे-(अ०)।
लटि-भवति, भवतः, भवन्ति। यथा-'भवति' विलग्नमदोऽयनांशहीनम् इति ग्रहलाघवे ४/३। 'चतुर्थे भवने सूर्याज्ज्ञसितौ ‘भवत:' कथम्।' इति बृ०जा०। धनान्त्यलग्नेषु ‘भवन्ति' खेटाः, इति ग्रं०का०। वि०लि०-भवेत्, भवेताम्, भवेयुः। यथा-'समेन केनाप्यपवर्त्य हारभाज्यौ ‘भवे' द्वा सति सम्भवे तु।' इति ली०व०। 'तयोः सम्बन्धमात्रेण ‘भवेता' योगकारको इत्युडुदायप्रदीपे। केनापि ते स्पष्टतरा ‘भवेयुः' इति ग्रन्थान्तरे। 'णिजि'-लटि-भावयति, भावयतः, भावयन्ति। वि०लि०-भावयेत्, भावयेताम्, भावयेयुः। भावे- 'भूयते'।
'विद्' सत्तायाम् (होना, है)। (दिवादौ) आत्मनेपदे-(अ०)।
लटि-विद्यते, विद्येते, विद्यन्ते। यथा-पञ्चमे विद्यते भौमः' इति विद्यतेऽर्थे शशाङ्कारौ' इति। 'विद्यन्तेऽस्ते शुभा: खेटा: इति च ग्रं०का० वि०लि०-विद्येत, विद्येयाताम्, विद्येरन्। यथा-'विद्येत' बन्धौ वनभावनाथः' इति। 'विद्येयातां 'व्योम्नि सौम्यौ नभोगौ।' इति। 'विद्येरन्' स्वे वक्रवैरोचनीनाः।' इति च ग्रं०का०।
'अस्' भुवि (सत्ता, होना, है)। अदादौ परस्मैपदे-(अ०)।
For Private and Personal Use Only