________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ग्रहगणितसर्गः
भूपरिधिप' ० – कुपरिधि:, भूकक्षा, भूपरिधि:, भूभगोल:, भूमण्डलम्, भूमिगोलपरिधि:, भूवृत्तम्, भूवेष्टनम्, महीमण्डलम्, महीवृत्तम्।
भूव्यासप० - कुविस्तृति:, भूकर्ण, भूविस्तृति:, भूव्यासः, महीव्यासः, मेदिनीविस्तृतिः । भूव्यासार्द्धप० – कुविस्तृतिदलम्, भूवेष्टनार्द्धम्, भूव्यासार्द्धम्।
रेखाप० – रेखा, रेषा ।
रेखायोजनप० – रेखाचतुष्क्रोशम्, रेखाचतुष्क्रोशी, रेखायोजनम् ।
रेखांशप ० – रेखाभागाः, रेखालवा:, रेखांशका:, रेखाशाः ।
,
Acharya Shri Kailassagarsuri Gyanmandir
भूमध्यरेखाप० – कुमध्यरेखा, भूमध्यरेखा, भूमिमध्यरेखा, महीमध्यरेखा, मेदिनीमध्यरेखा । रेखा भूमिप ० - रेखाकु:, रेखाभूः रेखाभूमिः, भूमध्यरेखापुरम्, भूमध्यरेखानगरम्, लंकासुमेर्वार्मध्यसूत्रगतदेशः, वारप्रवृत्तिस्थलम् ।
२
भूमध्यस्थरेखापुरनामानि - लंकार, देवकन्या, काञ्ची । कल्लिकोटम् , मड्केरिपुरम्, ४, चिकमङ्गलूरम', हरिहरम्', वागलकोटम्', माहिष्मती' च, 'सह्यकुलाचलः, सोलापुरं च, १९ असायिपुरम्, बिड १२ च १३ भुसावलम् १४उज्जयिनी, १५कोटपुरम् (कोटा), "टोंकम्, "जयपुरम्, “रोहितकम्, "जालन्दरम् २० स्थानेश्वरम्, कुरुक्षेत्रं च, २२ हिमालयः, सुमेरुः ।
९९
भूमिकक्षा,
१. भूपरिधिव्यासावाह भास्करः
'प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धयः
४९६७ तद्व्यासः कुभुजाङ्गसायकभुवः १५८१ इति सि०शि० ।
२. कुमध्ये वर्त्तते। ३. मल्ल्यालदेशे समुद्रतीरस्थम्। ४. कुर्गप्रान्ते (५, ६, ७, ८ ) घटप्रभा तीरवर्तिमैसूरराज्ये कर्नाटदेशे। (९, १०) (महाराष्ट्रदेशे ) विदर्भापरपर्यायवहाडदेशादपि निकट एव वरीवर्ति। गोदावर्य्यां नातिदूरप्रदेशे । ११, १२ निजामराज्यमध्ये । इमे भारतवर्षदक्षिणभागे। (१३) खानदेशे, (१४) मालवप्रान्ते । मध्यभागे । १५, १६, १७ राजपुतानाराज्ये (१८, १८, २०, २१) पञ्चनद (पंजाब) प्रान्ते। (२२, २३) इमे भारतवर्षोतरदिग्भागे ।
इह तु सिद्धान्तशेखरे विशेष:
लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सित: षडास्यः । श्रीवत्सगुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा ।। स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम्। श्रीगर्गराटं च सरोहितार्क्षस्थानेश्वरं शीतगिरिः सुमेरुः ।। इतीव याम्योत्तरगां धराया रेखामिमां गोलविदो वदन्ति । अन्यानि रेखास्थितिभानि लोके ज्ञेयानि तज्ज्ञैः पुटभेदनानि ।। इति ।
For Private and Personal Use Only