________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः (१) पञ्चराशिकम्, (२) सप्तराशिकम्, (३) नवराशिकम्। एवमग्रेऽपि। इह पञ्चराशिकादौ करणसूत्रमाह भास्कर:
पञ्चसप्तनवराशिकादिके अन्योन्यपक्षनयनं फलमिच्छदाम्॥ . संविधाय बहुराशिजे वधे स्वल्पराशिवधभाजिते फलम्।। इति ली. व.। गणितशुद्धिपर्यायः-गणितशुद्धि: (स्त्री०)। तत्प्रकारमाह बीजदत्त:गुण्ये गुणे नवहते परिशेषघाते नन्दैर्हते भवति यः परिशेषराशिः। घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेद्गणितस्य शुद्धिम्।। इति ग्रन्थान्तरे। पाटीगणितेऽपि'हाराप्त्या नवशेषस्तद्यत्तेनाढ्यशेषनवशेषः।
भाज्याङ्को नवशेषस्तुल्य: स्यात्तदा शुद्धः।।' इति। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे गणनासर्गः सप्तमः ॥७॥
अथ ग्रहगणितसर्गः-८ ग्रहपर्यायाः-खगः, खचरः, ग्रहः, नभश्चरः शेषपर्यायास्तु ग्रहवर्गे द्रष्टव्यः।
ग्रहभेदाः-(१) प्रकाशकग्रहौ, (२) ताराग्रहाः, (३) तमः स्वरूपग्रहो। इति ग्रहाणां त्रयो भेदा:स्युः।
प्रकाशकग्रहनामनी-सूर्यः, चन्द्रः। ताराग्रहनामानि-भौमः, बुधः, गुरुः, शुक्रः, शनिः। तमः स्वरूपग्रहनामनी-राहुः, केतुः। ग्रहगणितपर्यायाः-रवचरगणितम्, ग्रहगणितम्, धुचरगणितम्। १. भारते ग्रहगणितस्य त्रयोभेदाः। १. सिद्धान्त:, २. तंत्रम्, ३. करणम्, चेति त्रयोभेदाः स्युः। सिद्धान्तस्यापि त्रयः पक्षाः।
१. सूर्यसिद्धांत:, २. आर्यसिद्धान्त:, ३. ब्रह्मसिद्धांतश्चेति त्रय: पक्षाः। इह सिद्धांते सृष्ट्यादितोऽहर्गणानयनमुक्तम्। तंत्रे युगादितस्तत्। करणे तु शकादितस्तदानयनं ज्ञेयम्। सृष्ट्याद्यहर्गणभवग्रह उदयान्तरसंस्कारेण संस्कृतः कार्यस्तदा लङ्का (रेखास्थनगर) मध्यमाकोंदयकालिकमध्यमग्रह: स्यात्।।
तदुक्तं भास्करण'दशशिर: पुरिमध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः।' इति सि०शि०।
अस्मिन् ग्रहे चरसंस्कारो देयस्तदा रेखाकोंदयकालीनमध्यमग्रहः स्यात्। यद्यभीष्टो ग्रामो रेखाया (भूमध्यरेखायाः) बहि:स्थितस्तदा रेखान्तरसंस्कारः प्रोक्तः। स च यथाह
रेखा स्वदेशांतरयोजनघ्नी गतिम्रहस्याभ्रगजैर्विभक्ताः। लब्धं विलिप्ता: खचरे विधेया: प्राच्यामृणं पश्चिमतो धनं ताः, इति करणकुतूहले।
अनेन संस्कारेण स्वाभीष्टग्रामे मध्यमाकोंदयकालिको मध्यमग्रह: स्यात्। अथवा स्वदेशीयमध्यमग्रहः स्यात्। एवं तंत्रसोऽपि मध्यमग्रहानयनं ज्ञेयमिति।
For Private and Personal Use Only