________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२) 'एवमादि ' पूर्वोक्तप्रकारम् । अपीति संभावने, संभवत्येवैतत् 'प्रतिमास्वपि' जिनमूर्तिष्यपि, न केवलं साक्षाद्भावतीर्थकृतामित्यपिशब्दार्थः । 'प्रतिरूपं ' यथोक्ताशातनादिवर्जनमकुर्वनविदधानः प्रामोति ' लभते 'पारंचिकं' प्रायश्चित्तं लिङ्गादिकम्, ठाणमिति । तिष्ठन्त्यस्मिन्निति कर्माणि प्रायश्चित्तानाचरणत इति स्थानं काधारः कर्मभिश्च भवः, अतःसिद्धमिदं- तेहिं अप्पा भवे खित्तोत्ति । किंच-आचाराङ्गनियुक्त्यां दर्शनविशुद्धिं वर्णयता श्रुतकेवलिना भणित-चिरन्तनचैत्यवन्दने दर्शनशुद्धिर्भवति सइढिणं तच्चेदंतित्थयराण भयवओ पवयणपावयणिअइ सहड्डिणं । । अभिगमण-नमण-दरिसण-कित्तण-संसणय-संथुणणं ॥ १ ॥ जम्माभिसेय-निक्खमण-चरण-नाणुप्पाया य णिवाणे । दियलोयभवणमंदिर-नंदिसर-भोमणगरेसु ॥ २ ॥ अट्ठावयमुजंते गयग्गपयये य धम्मचके य । पासरहावत्तं चिय चमरुप्पायं च वंदामि ॥३॥ गणियनिमित्तं दुत्तीसं दिट्ठी अ वितहं इमं नाणं । इय एगंतमणुगया पुण पव्वगा इमे अत्था ॥ ४ ॥ गुणमाहप्पं इसिनामकित्तणं सुरमरिंदपूया य । पोराणचेइयाण य इय एसा दंसणे होइ ॥ ५ ॥
चिरन्तनचैत्यानि च पूजयतो दर्शनशुद्धिर्भवति, न केवलं पूर्वगाथोक्तं कुर्वतः, अतः स्थितमिह चिरन्तनचैत्यानामवर्गवादादि न कार्यम् ।
ननु किमेवं बहुश्रुतवचनसन्दर्भश्रवगेऽपि ते एवं नूतनं प्रतिपादयन्ति ? उच्यते, विकृत्याद्यर्थम् । तथा चोक्तं व्यवहारे यथाच्छन्दलक्षणं कथयता-"सच्छ न्दमई विगप्पियं काउं तं पनवेइ तओ तस्स गुणेण विगईओ लहइ, सायपडिबद्धो सुहं अच्छइ, तेण य सच्छन्दकप्पिएणं पन्नविएणं समाहिओ समाणो पूइओ य तिहि इट्टिमाइगारवेहिं सज्जइ । " इत्यादि । एतच्चायतनेष्वप्यधिकारेषु यथासंभवमायोज्यमिति गाथार्थः।
इदानीं पूर्वोक्तार्थनिगमनगर्भ जीवोपदेशमाह
For Private And Personal Use Only