SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिनकृपाचन्द्र सूरिचरित्रम् ॥ ९९ ॥ www.kobatirth.org. ह्येकोपवासं सकलाः प्रचक्रुः । द्वैघस्रिकं ध्याहिकमप्यनेके, तुर्यांस्तथा पञ्चदिनोपवासम् ॥ ४०८ ।। षट्सप्त-शैलाङ्क -दशोपवासान्, एकादश-द्वादश चाsपि लोकाः त्रयोदशाऽप्येवमनेकभव्या-चतुर्दशाऽकुर्वत भूरिभक्त्या ॥ ४०९ ।। तिथिप्रमाणं च जनाः कियन्त-अक्कुः परे पोडश चोपवासान् । अथाऽपरे सप्तदश प्रचक्रु-रष्टादशाऽपि प्रबलाः कियन्तः ॥ ४१० ॥ एकोनविंशत्युपवासमेवं, चक्रुस्तथा विंशतिमप्यनल्पाः । अथैकविंशत्युपवासमेते, द्वाविंशतिं चाऽपि घना जना हि ॥ ४११ ।। चक्रुस्त्रयोविंशतिमप्यनेके, युग-द्विसंख्यं बहवोऽत्र भव्याः । कियञ्जनाः पञ्चदेलप्रमाणं, पश्चिशतिं चाऽपि महामहेन || ४१२ ॥ नक्षमात्रं बहुदुष्करं ते ऽष्टाविंशतिं भक्तिभरेण चक्रुः । एकोनत्रिंशदिवसोपवासं मासोपवासं व्यदधुः कियन्तः ||४१३|| एकत्रि संख्यं द्युपवासमेवं, द्वात्रिंशतं चाऽपि महोपवासम् । विधाय सानन्दमशेषलोका, धर्मं महान्तं परिलेभिरे हि ॥ ४१४ ॥ ततो नभस्याऽसित विष्णुतियां, दिनाऽष्टकं यावदशेषसंघः । पर्यूषणापर्व महामहेन, समारराधाऽधिकधर्मकृत्यैः || ४१५ || सम्वत्सरपर्वदिने च सायम्, प्रतिक्रमान्ते सकलैश्च जीवैः । संघचतुर्धा क्रमशः क्षमित्वाऽक्षमापयद्वार्षिकजातमन्तुम् ॥ ४१६ ॥ ततश्चतुःसंघ उदारभावैश्चैत्यप्रवाटी भ्रमयाञ्चकार । समस्तपुर्यां महता महेन, बेण्डाऽऽदिनानाविधवाद्यनादैः || ४१७ ।। इषेमासे विजयादिकाया, महे दशम्याः समुपस्थिते हि । वरीश्वराऽऽस्यादुपधानकृत्य माहात्म्यमाकर्ण्य विशेषमेषः || ४१८|| श्रीप्रेमचन्द्रः सुमतिः खजान - चीत्याख्यसुश्रावक उत्थितः सन् । आचार्यवर्यस्य पुरः समृचे, लाभो ह्ययं मे प्रभुवर्य ! देहि ||४१९॥ अहङ्करिष्याम्युपधाननाम महातपः कारयिताऽस्मि चाऽन्यैः । जागर्ति वाञ्छा महती मदीय-चित्ते कृपालो ! भगवंस्तदर्थम् ||४२०।। आचार्यवर्यस्तमवक् तदैवं श्रद्धाssढ्य ! सुभावक ! भावना चेत् । किलेदृशी ते समुदेति तर्हि, शीघ्रं विधातुं 3 For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir चतुर्थः सर्गः । ॥ ९९ ॥
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy