________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Ka
u n Gyanmand
कुरु यत्नमेतत् (म्)॥ ४२१ ॥ धर्मस्य कार्ये न विलम्बनीयं, अयोऽथिभिर्धारजनैः सुपुम्भिः । गुरूदितं वाक्यमिदं निशम्य, श्रेष्ठी प्रसीदन् गुरुमेवमाख्यत् ।।४२२॥ स्वामिन् ! किलाऽस्मिन् न हि मे विलम्बो, विलोक्यतां तदिवसः कदैता । प्रारम्भय त्वं सुदिने किलेतत् , विलोक्यमूरिस्तमवोचतेबम् ।। ४२३ ।। (शार्दूलविक्रीडितम्)-भव्यात्मन् ! दशमीयमस्ति विजया सर्वानुकूला शुभा, तस्मिन्नेव शुभकरिष्णुदिवसे प्रारभ्यतामेतकत् । निर्णीते गुरुभिर्दिने द्रुततरं सत्कुलपत्रीमसौ, प्रेषीद्देशविदेशयोश्च सकलश्रीसङ्घकाऽऽहूतये ॥४२४|| (उपजातिः)-तत्रोपयुक्कामथ सर्वसाम-ग्रीमानयामास तदैव सोऽपि । ततो दशम्यां विजयादिकायामारम्भयच्छीमुनिराज एपः ॥४२५।। आसंस्तदाराधकपुखियश्व,प्रायः शताऽष्टोत्तरसंख्यका हि । तपस्यमुष्मिन् निशि जागराऽऽदि-मालासमारोपणकोत्सवश्च ॥४२६।। दिनाऽष्टकाऽऽरब्धमहोत्सवोऽपि, शान्त्यादिकखात्रसमर्चनं च । सुस्वामिवात्सल्यमनेकवस्तु-प्रभावना-शील-तपः-प्रदानम् ॥ ४२७ ।। दीनार-मुद्राऽऽदिकदानमत्र, फलोधिपुर्यामिव सर्वथाऽभूत् । आराधकाऽशेषजनाऽशनाऽऽदि, श्रीप्रेमचन्द्रः कृतवान् खजाची ॥४२८।। आरम्भघसादुपधानकीया-ऽवसानपर्यन्तमुपागतानाम् । साधर्मिकाणामशनाऽऽदिना हि, सम्भक्तिमेपोऽकत भूरिभावः ॥४२९।। वैदेशिकाबा(?)गतसजनास्ते, तपस्विकेभ्यो व्यददुः समेभ्यः । प्रभावनां भक्तिकृते तदाऽष्ट-शेर्तप्रकार परिवृद्धभावाः ||४३० ॥ मिथो ददस्ते शतशव मुद्रा, भावप्रवक्ष्या वरभक्तिहेतोः। तैपेसिते स्कन्दतिथौ सुचारु-महोत्सवैः सूरिवरः समेषाम् ॥ ४३१ ।। मालां समारोपितवानधिग्री-वं स्वर्णमुद्रामथ शालरूप्य-कादींश्च तेभ्यो व्यददुर्महेभ्या-स्तपस्विनां स्वीयकराम्बुजेन ॥ ४३२ ॥ युग्मम् ॥ शेपं च सर्व फलवद्धिपूर्वत्, पुर्यामिहाऽभूदुपधानकृत्ये । इत्थं महाऽऽडम्बरतः समाप्य, ततो व्यहार्षीन् मुनिराजवर्यः ।। ४३३ ।। (वसन्ततिलका)-आगत्य
SANCHAR+C
For Private And Personal use only