________________
San Mahavia Ardhana Kenda
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
चतथे?
श्रीजिनकपाचन्द्र
सरिचरित्रम्
॥९६॥
4%9454643
| सुपत्रं परिवाच्य संघ-चारित्रसरेजिनपूर्वकस्य । अजहषीद्भक्तिभरं च तस्मिन् , विभ्र चतुर्धा मुनिराजवर्य ॥ ३३७ ॥ सूरीश्वरो यहि पुरोपकण्ठं, समागमत्तहि समस्तसंघः। श्रीपूज्यपत्राधिकसम्प्रणुन-श्चतुर्विधस्तयतिमण्डली च ॥ ३३८ ॥ सौवर्णयष्टि-ध्वज-शङ्क-वेण्ड-भेर्यानकाऽऽद्युष्णमयूखमात्रैः । वाद्यैरनेकैः प्रविभूषिताऽश्वः, प्रत्यागमं ते व्यदधुर्गुरूणाम् ॥ ३३९ ।। । | यथाविधानं सकलोऽपि संघो, विधाय तद्वन्दनमादरेण । सहैव तं श्रीगुरुराजवर्य, प्रावी विशद् विक्रमपत्ननान्तः ॥ ३४०।।
दैये च तस्या परिवर्ति पुर्याः, क्रोशत्रयांऽशद्वयसं महत्या: । तावत्प्रमाणा परिणाहताऽस्या, सद्राजधान्या: सुषमामितायाः ४॥ ३४१ ॥ भिन्नासरेशानदिशिस्थनूत्न-भूपालवासाद्गणने तु सा पूः । गन्यूतिकाऽऽयामवती लसन्ती, विशालतां क्रोशमितां विधचे ॥३४२।। नाम्ना मुहल्लेतिविभक्तिरत्र, जिनेशचैत्यानि महान्ति चाऽष्टौ । शरत्रिदंमानि च मन्दिराणि, सर्वाणि जैनानि लसन्ति तत्र ॥३४३ । सोपाश्रया जैनिकधर्मशाला:, प्रायेण पञ्चाशदिहाऽऽविभान्ति । वसन्ति लोकाः सकला द्विलक्षं, सर्वे धनाssख्या निजधर्मरक्ताः ।। ३४४ ॥ तस्यां चतुर्दिक्षु महान्ति सन्ति, निर्वाणधामानि महागुरूणाम् । प्राच्यां दिशि श्रीजिनदत्तमूरे| युगप्रधानस्य महीयसस्तत् ।। ३४५ ।। तत्पत्तनं हर्षपुराऽभिधानं, वापीसुकूपोपवनाभिरामम् । सद्भिगृहस्थरतिशोममानं, सद्धर्मकर्माऽऽरतमानवाऽऽयम् ॥ ३४६ ।। अकबराऽऽख्यक्षितिपालकस्य, प्रबोधकश्रीजिनचन्द्रसूरेः । निर्वाणभूमिर्दिशि दक्षिणस्यां, नाटताख्ये नगरेऽस्ति रम्यम् (म्या) ॥ ३४७॥ दिशि प्रतीच्या परिवर्ति तस्य, श्रीमअिनाऽऽदेः कुशलस्य सूरेः । देराउराऽऽख्ये नगरे विशालं, निर्वाणधामाऽधिक शोभमानम् ।। ३४८ ॥ भालस्थलस्थापितरत्नशालि-अख्यातिमच्छीजिनचन्द्रसूरेः । कौवेरिकायां दिशि वर्तमानं, दिल्लीपुरे राजति धाम तद्धि ॥ ३४९ ॥ यथा चतुर्दिक्षु चतुर्दिगीश-विमान
CARXXRESEARC%
॥९६॥
For Private And Personal use only