________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
बन्दनायै, व्याख्यानलाभार्थमपीह नित्यम् ।। २७४ ॥ न ह्येकमप्यत्र दिनं ह्यगच्छत् , यस्मिन् विदेशादिह केऽपि नाऽऽगुः। श्रीमद्गुरोर्दर्शनवन्दनाऽऽदि-विधित्सया श्राद्धजना महेभ्या:॥२७५।। आषाढशकीयचतुर्दशीता, रामाऽब्धिसंयानि दिनानि यावत् । स्वाध्यायधर्माऽऽदिकमाततान, वेदाष्ट-नन्देन्दुमितवर्षे ॥२७६॥ अष्टाऽशिक पर्युषणं ततोऽयं, समस्तसंघेन चतुर्विधेन। साधं समाराधितवान् महीयान्, प्रमादमुक्तः परमोत्सवेन ॥ २७७॥ (शार्दूलविक्रीडितम्)-पश्चाशत्तमवासरे गुरुवरः सम्बत्सरीयप्रति-कामं संघयुतो विधाय विधिवत्क्षान्त्वा समैः क्षामयन् । जीवैर्वत्सरजातमन्तुमखिलं ज्ञातं तथाज्ञातकं, चैत्यादेरभिवन्दनं समकरोच्छीमान् महान् परिराट् ॥२७८। (इन्द्रवजा)-अथाऽऽश्चिने शुक्दले किलेपु:(लेयु.), सुश्राविकाः श्राद्धगणाध तत्र । विराजमाने गुरुराजवर्ये, कर्तुं तपस्ते झुपधाननाम ।। २७९ ॥ (भुजङ्गप्रयातम् )-ततः सूरिराजो महालाभकार्य, विदित्वा किलैतवृदि स्फारबुद्धिः । प्रशस्ते मुहर्ने सुखेटाऽनुकूले, तदारम्भयच्छावकथाविकाभिः ।। २८० ॥
(उपजातिः)-आसंस्तदाराधकपुस्त्रियश्च, शतं किलाऽष्टोत्तरमाहतास्ते । ग्रामान्तरीयाः पुरवासिनश्च, समारराधुर्विधिवन्मिलित्वा ॥२८॥ जातं किलैतच्छर-तर्कधन-मात्रं महाऽऽडम्बरतः प्रशस्यम् । निर्विघ्नमेतद्गुरुराजपाद-सरोजयुग्माऽनुपमप्रभावात् ।। २८२ ॥ सद्दीपमालोदितपर्वसौभा-ग्यपश्ची(श्चमी)पर्वमहोत्सवैस्ते । एवं चतुर्माससमाप्तिपर्व, द्वाराधयामासुरशेषलोकाः ।। २८३ ।। प्रख्यात-मौनाऽभिधभरिपुण्य-दैकादशीपर्व जनाः सहर्षम् । पौषे च मासे दशमीसुपर्व, याराध्य सर्वे मुदिता बभूवुः ।। २८४ ॥ ततः स्रगारोपणचावेंपूर्वः, समुत्सवोजायत तत्र पुर्याम् । तत्रायऽऽरात्रावजनिष्ट जाग-रणं समेषों महता महेन ॥ २८५ ।। दिने द्वितीये रथवेदिकाऽऽदि-यात्रा विशिष्टा समभूदपूर्वा । स्थाले विशाले विनिधाय माला, अने
For Private And Personal use only